________________
( ४८ )
वौ वत्तिका २।४।११०॥ शकुनावर्थे वत्तिकाया इत्वं वा स्यात् । वत्तिका । वर्तका। वाविति किम् । वत्तिका भागुरिः ११०॥ वर्तयतीति णकः, आप 'अस्यायत्त० ।२।४।१११॥ सूत्रादिकारे । वत्तिकाशकनिः । वत्तिका चटिका उच्यते लोके चिडीयां इति च । भागुरिः=लोकायतस्य व्याख्यात्री। लोके आयतं लोकायतम् =नास्तिकशास्त्रम् तस्य व्याख्याता आचार्य भागुरिशब्देनोच्यते, बाहुलकात्स्त्रीलिङ्गः ॥११०॥
N
अस्या-यत्तत्क्षिपकादीनाम् ।२।४।१११। यबादिवर्जस्यातोऽनित्क्याप्परे इः स्यात् । पाचिका । मद्रिका । अनित्कीत्येव। जीवका। आप्पर इत्येव ? बहुपरिव्राजका। यदादिवर्जनं किम् । यका । सका। क्षिपका। ध्रुवका ॥१११॥ पृथग्योगाद् नवेति निवृत्तम् । यद्यत्रापि विकल्पः स्यात्तदा 'स्विका, स्वका' इत्यादी 'ड्यादीदूतः०' ।२।४।१०४। सूत्रात् ह्रस्वत्वेऽनेन वैकल्पिकस्य इत्वस्य सिद्धत्वात् 'स्वज्ञाज-भस्त्रा०।२।४।१०८। इत्यादीनां पृथगुपादानमनर्थकं स्यादिति । पचतीति पाचकः, ‘णकतृचौ' ।५।१४८। स्त्री चेत् पाचिका । आप, पश्चात् इत्वम् । मद्रषु भवा मद्रिका। 'वृजिमद्राद्देशात्कः ।६।३।३८। सूत्रेण कप्रत्ययः । जीवतादित्याशास्यमाना या सा जीवका 'आशिष्यकन्' ।५।१७०। सूत्रादकन् । बहवः परिवाजका यस्यां सा बहपरिणाजका नगरी। अत्र विभक्त्यन्तात् आप, अतो न ककारात्पर आप्, विभक्त्या व्यवहितत्वात् । क्षिपका-प्रहरणविशेषः । ध्रुवकाऽऽवपनभाजन-विशेषः । बहुवचनमाकृतिगणार्थम् ॥१११॥
नरिका-मामिका ।।४।११२।