________________
( ४७ . )
स्वज्ञाजभस्त्रेभ्यो धातुत्यवर्जस्य यौ यको ताभ्यां च परस्याप स्थाने ऽनित्क्याप्परे परत इकारो वा स्यात् । स्विका । स्वका। ज्ञिका। ज्ञका। अजिका। अजका । भस्त्रिका । भस्त्रका । इभ्यिका। इभ्यका। चटकिका । चटकका । धातुत्यवर्जन किम् । सुनयिका। सुपाकिका । इहत्यिका। आप इत्येव । काम्पोल्यिका ॥१०॥ कुत्सिता स्वा ज्ञातिःस्विका स्वका ज्ञांतिधनाख्यामामसर्वादित्वात्अकोऽभावे कप्प्रत्ययान्तोऽयम् । इभमहतीति-'दण्डादेर्यः ।।४।१७८। इति ये कत्सिताद्यर्थे कपि आपि विकल्पेनेत्त्वे इभ्यिका इभ्यका। शोभनो नयो यस्याः सा सुनया 'यादीदूतः' ।२।४।१०४। इति ह्रस्वत्वे 'अस्याः ' ।२।४।१११। इतीकारे च सुनयिका । इहत्यिकेति-इह भवा इहत्या । 'क्वेहा०' ।६।३।१६। इति त्यच् । काम्पील्यिकेति-कम्पीलेन निर्वृत्तं काम्पील्यम् सुपन्थ्यादेयं ।६।२।८४। इति ज्यः । तत्र भवा 'प्रस्थपूर०' ।६।३।३। इति योपान्त्यलक्षष्णेऽकन उत्तरसूत्रेणेह नित्यमिकारः ॥१०॥
द्वषसूतपुत्रवृन्दारकस्य ।२।४।१०६। एषामन्तस्यानित्क्याप्परे इर्वा स्यात् । द्विके द्वके। एषिका। एषका । सूतिका। सूतका। पुत्रिका। पुत्रका । वृन्दारिका । • वृन्दारका ॥१०॥ आप इति निर्वृत्तं पृथग्योगात् 'त्यादिसर्वादेः' ।।३।२६। इत्य कित्यकाद्यत्वे आपि 'औता' ।।४।२०। इत्येत्त्वे विकल्पेऽनेनेत्त्वे च द्विके द्विके इति पुत्रिकेति-पुत्रशब्दात् कुत्सितादौ कपि आबादी च, कृत्रिमः पुत्र इति वा 'तनुपुत्राऽण' ।७।३।२३। इति कः । प्रशस्तं वृन्दमस्या अस्तीति वृन्दात्' १७।२।११। इत्यारके वृन्दारिकेत्यादि, ततः आप। द्विशब्दसाहचर्यादेषेति सर्वादेः कृतविकारस्यैतदो निर्देशः तेनेषेर्णकादिप्रत्ययान्तस्या-विकृतस्य- ' तच्छन्द-स्य च न भवति । इच्छतीति-एषिका । एता एव एतिकाः ॥१०॥