________________
( ४६ )
ना। अतिप्रियखट्वाका स्त्री । आप इत्येव । मातृका ॥ १०७ ॥
:
इत् अनुबन्ध यस्य स नित् न निदनित्तस्य सम्बन्धी क् अनित्क् तस्मिन् । अनि इतिपर्युदासेन प्रत्ययस्यैव कस्य ग्रहणं तेन 'नरिका - मामिका' ।२।४।११२। सूत्रादित्त्वशासनमर्थवद् भवति । अन्यथा नरान् कायति, ममेयं मामिका इत्यत्र इत्त्वनिपातनमनर्थकं स्यादनेन प्रकृतसूत्रेणैव सिद्ध ेः । आपीति उपश्लेषसप्तम्यैव आबुपश्लिष्टे ककारे इत्यर्थस्य सिद्ध परग्रहणं. नित्यार्थमित्याह - आबेव पर इति । ननु आबादेः स्त्रीवाचिशब्दादेव विधानात्, पुल्लिङ्गार्थादापोऽभावाद् विशेषणमिदं निरर्थकमिति चेन्न शब्दस्य यत्प्रवृत्तिनिमित्तं तदेव पुंस्त्वस्य स्त्रीत्वस्य वान्वयितावच्छेदकं भवति तादृशशब्दभिन्नश्शब्दोऽपुल्लिङ्गार्थ उच्यते । सर्वशब्दस्य च यत्प्रवृत्तिनिमित्तं पुंस्त्वस्यान्वयितावच्छेदकं तदेव च स्त्रीत्वस्यापीति नाऽपुल्लिङ्गाथंत्वम्, खट्वाशब्दस्यैतादृशम् अपुंल्लिङ्गार्थत्वम् । खट्विकेत्यादि'कुत्सिताल्पाज्ञाते | ७|३|३३| सूत्रात् प्, 'ङधादीदूतः | २ | ४|१०४| सूत्रान्नित्यं ह्रस्वे प्राप्तेऽनेन इकारो ह्रस्वश्च विकल्पेन तद्विमुक्त चाकार इति । सर्विकेति — सर्वशब्दस्य यत्प्रवृत्तिनिमित्तं तदेव पुंस्त्वस्यान्वयितावच्छेदकं तदेव च स्त्रीत्वस्यापीति नापुंल्लिङ्गार्थत्वम् । सर्वा नाम काचित् ततः 'यावादिभ्यः | ७|३|१५| सूत्रात्के 'ङयादीदूतः के' | २|४|१०४| सूत्रात् ह्रस्वत्वे ‘अस्यायत्त० ।२।४।१११ | सूत्रादिकारः, सर्वादेः सर्वशब्दस्य तु 'त्यादि - सर्वादेः० | ७|३|२९| सूत्रेणान्त्यस्वरात् प्रागकि सर्विका प्रत्युदाहरणं त्वाद्यमेव न तु द्वितीयं कात्पूर्वमापोऽभावेन द्वङ्गविकलत्वात् । दुर्गकेति-अनुकम्पिता दुर्गादेवीति 'लुक्युत्तरपदस्य क्पन् | ७|३|३८| सूत्रात् पन् 'ङयादीदूत : ० | २|४|१०४ | सूनात् ह्रस्वः । प्रियखवाकः - अन नाप्परः कः । प्रियखट्वाकमतिक्रान्ता अतिप्रियखट्वाका, अत्राप्याप्परो न कः, प्रथमं द्वितीया पश्चादाबिति न भवति । लुप्त द्वितीयाविभक्तिव्यवहितत्वात् । जननीवमातुस्तुल्या मातृका, 'तस्य तुल्ये० | ७|१|१०८ | सूत्रेण कप्रत्ययः, चन एवात्र मातृशब्दः, न तु धान्यमाता मिभीते इति व्युत्पन्नो मातृशब्दः । तस्याऽपंंस इत्यनेनैव व्यावृत्तत्वात्, आबित्येवेत्यस्य प्रत्यदाहरणता न स्यात् ॥ १०७॥
स्वज्ञाऽजभस्त्राऽधातुत्ययकात् | २|४|१०८ ।