________________
( ४५ )
यादीदूतां कचि परे ह्रस्वो न स्यात् । बहुकुमारीकः । बहुकीलालपाकः । बहुलक्ष्मीकः । बहुब्रह्मबन्धूकः ॥१०॥ बहुकुमारीक इत्यादि-बह्वयः कुमार्यो यस्मिन्निति 'ऋन्नित्यदितः' १७।३।१७१। इति कच् एवं बहु-ब्रह्मबन्धक इत्यत्रापि । बहुकीलालपाक इत्यत्र शेषाद्वा' ।७।३।१७५।इति कच् । 'बहलक्ष्मीक इत्यत्रकत्वे पमनडन्नी' ७।३।१७३। इति बहुत्वे तु 'शेषाद्वा' ७।३।१७५। इति कच । 'न कचिं' ।२।४।१०५। इति प्रतिषेधः पूर्वसूत्रे 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायस्याभावज्ञापनार्थस्तेन शबरोपलक्षिता जम्बूः शबरजम्ब्वां भवः शाबरजम्बुकः ‘उवर्णादिकण् ।६।३।३६। इतीकण 'ऋवणोवर्ण०' ७।४।७१। इति सूत्रेणेकण इकारस्य लोपः तलोऽनेन ह्रस्वः सिद्धः । अन्यथा 'तस्य तुल्ये० ' ७१।१०॥ इति विहितस्य कस्यैव ग्रहणं स्यात् न तु कपादेः ॥१०॥
-
नवाऽऽपः ।२।४।१०६। आपः परे ह्रस्वो वा स्यात् । प्रियखट्वकः । प्रियखट्वाकः । ॥१०६॥ पूर्वेण प्रतिषेधे प्राप्ते पक्षे ह्रस्वार्थमिदम् । प्रिया खट्वा यस्येति बहुव्रीही 'शेषाद् वा' ।७।३।१७५॥ इति कचि पक्षेऽनेन ह्रस्वत्वे प्रियखट्वक इत्यादि ॥१०६॥
इच्चापु सो ऽनित्क्याप्परे ।२।४।१०७। आबेव परो यस्मान्न विभक्तिस्तस्मिन्ननितः प्रत्ययस्यावयवे के परेऽ-पुल्लिङ्गार्थाद्विहितस्यापस्स्थाने इह्रस्वौ वा स्याताम् । खबिका । खट्वका । खट्वाका । अपुंस इति किम्। सविका। अनिदिति किम् । दुर्गका। आप्पर इति किम् । प्रियखट्वाको