________________
( ४४ )
गोण्या मेये ।२।४।१०३॥
गोप्या मानवृत्त रुपचारान्मेयवृत्तह्रस्वः स्यात् । गोण्या मितो। गोणिः ॥१०३॥ गोण्या मितो धान्यादिगोणिः । विनैव तद्धितेन गोणीशब्दो गोणीप्रमितेऽर्थे वीह्यादावुपचार.द् वर्तते यथा प्रस्थ-प्रमिते प्रस्थ इति । तरय चायं हस्वः इति सत्रारम्भः अथवा कृतेपि तद्धिते तल्लकि 'ड्यादेगीणस्या० ।२।४।६५। इत्यत्र अगोणीसूच्योरिति प्रतिषेधे ‘गोश्चान्ते०।२।४।६६। इति च समासे एव विधानात् अत्र तदभावात् ह्रस्वार्थ-मिदं सूत्रम्॥१०३।।
यादीदूतः के ।२।४।१०४॥ . यादीदन्तानाञ्च के प्रत्यये ह्रस्वः स्यात् । पदिका । सोमपका । लक्ष्मिका । वधुका ॥१०४॥ पट्विकेति-कुत्सिताऽल्पाऽज्ञाता वा पट्वी-'प्राग्नित्यात्कप' ।७।३।२६। इति कप एवं सोमपिकेत्यादावपि । 'अस्यायत्तत्क्षिपका०' ।।४।१११। इत्यकारस्येत्वम् । ननु पटिवकेत्यत्र 'यादीद्वतः के' ।२।४।१०४। इनि हस्वस्य प्राप्तिः, 'क्यङमानि०' ।३।२।५०। इति वद्भावस्य च प्राप्ति-रित्युभयप्राप्तो परत्वात् पुवब्रावो भविष्यतीति पट्विकेति न सिध्यतीति चेत्सत्यमिदं डीग्रहणं निरवकाशं सत् पवनावं बाधते। 'प्रत्ययाप्रत्यययोः० इति न्यायात् काकः पाक: इत्यादी ह्रस्वो न भवति । ककि लौल्ये ककति लोलो भवतीत्यचि पृषोदाराद्यात्वेचकाकः। पचनं पाकःघनिक्तऽनिटश्च'०।४।१।१११॥इति कत्वमिति ककारस्य प्रत्ययत्वा-भावात् ह्रस्वत्वं न भवति । यदा तु कायतेःपिबतेश्च भीणशलि-वलि०' ।उणा० २१। इति कःतदा उणादीना मव्युत्पन्नत्वान्न भवतिव्युत्पत्तिपक्षे तु बहुलवचनान्न भवतीति भावः ॥१०४।।
न कचि ।।४।१०५॥