________________
( ४३ )
त्वे ।।४।१०। ङयाबन्तस्य त्वे परे बहुलं ह्रस्वः स्यात् । रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ॥१००॥ 'भावे त्वतल्' ।७।११५५॥ इति त्वप्रत्ययः ॥१००॥
भु वोऽच्च कुसकुटयोः ।।४।१०१। अनयोः परयो यो ह्रस्वो-ऽच्चस्यात् । भ्रकुसः । भ्र कुंसः । भ्रकुटिः । न कुटिः ॥१०१॥ भ्र वी कुसयतीति 'कर्मणोऽण्' ।५।१७२॥ इत्यण। भ्र वः कुटिः कौटिल्यमित्यय. ॥१०१॥
मालेषीकेष्टकस्यान्ते-ऽपि भारितूलचिते ।।४।१०२। एषां केवलानामन्तस्थानां च भार्यादिषु परेषु यथासंख्यं ह्रस्वः स्यात् । मालभारी । उत्पलमालभारी। इषीकतूलम् । इष्टकचितम् ॥१०२॥ . माला च इषीका च इष्टका चेति समाहारद्वन्द्वः । मालादिभिः प्रकृतस्य नाम्नो विशेषणात् तदन्तलाभात् केवलस्य व्यपदेशिवद्भावादह्रस्वसिद्धावन्त-ग्रहणम् ‘ग्रहणवता नाम्ना न तदन्तविधिः' इति न्यायस्य ज्ञापकम् तेन दिग्धपादोपहतः, सौत्रनाडिरित्यादौ पदादेराऽऽयनण्प्रत्ययादयो न भवन्ति । मालां बिभतीत्येवं शीलः 'अजातेः शीले' ।५।१।१५४। इति णिन् मालभारी उत्पलानां माला तां बिभतीति । इषीकायास्तूलम्-इषीकतूलम्। चीयत इति चितम् इष्टकाभिश्चितम् ‘कारकं कृता' ।३।१।६८। इति समासः ॥१०२॥