________________
( ४२ )
वेदूतोऽनव्ययय्वृदीच्ङीयवः पदे | २|४||
ईदूतोरुत्तरपदे परे ह्रस्वो वा स्यात् । न चेत्तावव्ययौ वृतौ ईचौ ङयौ इयुवस्थानौ च स्याताम् । लक्ष्मीपुत्रः । लक्ष्मिपुत्रः खलपूपुत्रः । खलपुपुत्रः । अव्ययादिर्वजनं किम् । काण्डीभूतम् । इन्द्रपुत्रः । कारीषगन्धीपुत्रः । गार्गीपुत्रः । श्रीकुलम् । कु लम् ॥ ६८ ॥
काण्डीभूतमिति - ' कृभ्वस्ति०' | ७|२| १२६ । इति च्वि:, 'ईश्चावर्ण ० ' |४|३।१११ । इतीकारः । 'ऊर्याद्य ० ' | ३|१|२| इति गतिसञ्ज्ञा, 'गतिः' | १|१|३६| इत्यव्ययसंञ्ज्ञा । इद्रहू-पुत्रइति - इन्द्र ह्वयतीति क्विप् यजादि ० ' | ४|१|७६ | इतिवृत् ' दीर्घमवो ० |४| १|१०३ | इति दीर्घत्वं पुत्रशब्देन षष्ठीसमासश्च । गार्गीपुत्र इति गर्गस्य वृद्धमपत्यं स्त्रीति गर्गादियत्रः 'यत्रो डायन् च वा' | २|४|६७ | इति ङीः 'व्यञ्जनात्त०' | २|४|| इति यलुक्, गार्ग्याः पुत्र इति षष्ठीसमासश्च ॥ ६८ ॥
ङापो बहुलं नाम्नि | २|४||
ङन्तस्यान्तस्य चोत्तरपदे संज्ञायां ह्रस्वः स्याद्, बहुलम् । भरणिगुप्तः । भरणीगुप्तः । रेवतिमित्रः । रेवतीमित्रः । शिलवहम् । शिलावहम् । गङ्गमहः । गङ्गामहः ॥६॥
ङीप्रत्ययसाहचर्यात् आपः प्रत्ययस्य ग्रहणं न त्वाप्नोते : क्विन्तस्येत्याहआबन्तस्येति
क्वचित्प्रवृत्ति क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विविधानं बहुधा समीक्ष्य, चातुर्विधं बाहुलकं वदन्ति ॥ भरणीभिर्गुप्तः ' कारकं कृता' | ३|१|६८ | इति समासः । वहतीति वहम् शिलाया वह शिलावहम् । गङ्गायाः महः गङ्गमहः, गङ्गामहः। संज्ञा-शब्दाः एते ||६||
,