________________
( ४१ )
कुमारी ततः पञ्च कुमार्यो देवताऽस्य पञ्चकुमारी। पञ्चगोणिरितिपञ्चभिः गोणीभिः क्रीतः 'मूल्यैः क्रीते' ।६।४।१५०। इतीकणः 'अनाम्न्यद्वि:०' ।६।४।१४१। इति लोपः । गौरादिङीप्रत्ययस्य निवृत्त्यभावे 'गोश्चान्ते.' ।२।४।६६। इति ह्रस्वत्वम् एवं दशभिः सूचीभिः क्रीतः दशसूचिः ॥६५॥
गोश्चान्ते ह्रस्वो ऽनंशिसमासेयो-बहुव्रीहौ ।२।४।६६। गौणस्याक्विपो गोङाद्यन्तस्य चान्ते वर्तमानस्य ह्रस्वः स्वात् । न चेदसावंशिसमासान्तइयस्वन्तबहुब्रीह्यन्तो वा । चित्रगुः । निष्कौशाम्बिः । अतिखट्वः । अतिब्रह्मबन्धुः । गौणस्येत्येव ? सुगौः । राजकुमारो । अक्विप इत्येव ? प्रियगौः। प्रियकुमारी चैत्रः । गोश्चेति किम् । अतितन्त्रीः । अन्त इति किम् । गोकुलम् । कुमारीप्रियः । कन्यापुरम् । अंशिसमासादिवर्जनं किम् । अर्द्धपिप्पली । बहुश्रेयसी ना ॥६६॥ सुगौरित्यादि-शोभना गौ: सुगौः। राज्ञः कुमारी राजकुमारी । प्रियगौरित्यादि-गामिच्छति, क्यन्, गव्यतीति क्विप्, ततः प्रिया गोरस्य प्रियगौः। कुमारीमिच्छतीति क्विप ततः प्रियश्चासी कुमारी च प्रियकुमारी चैत्रः । अर्द्धपिप्पलीति-अद्ध पिप्पल्याः ‘समेंऽशेऽद्ध' ।३।१।५४। इत्यंशितत्पुरुषः । बह्वधः श्रेयस्यो यस्य स बहुश्रेयसी ईथस्वन्तवहुव्रीहित्वादत्र न ह्रस्वः ।।६।
क्लोबे।।४।। नपुंसकवृत्तेः स्वरान्तस्य नाम्नो ह्रस्वः स्यात् । कोलालपम् । अतिनु कुलम् ॥६७॥ कोलालपमिति-कीलालं पिबति यत्कुलं तत्कीलालयम् । नावमतिक्रान्तम्अतिनु । ॥१७॥