________________
( ४०
)
-
अनयोयो-ऽके परे लुग न स्यात् । राजन्यानां समूहो राजन्यकम् । एवं मानुष्यकम् ॥६४॥ राज्ञोऽपत्यं राजन्यः 'जाती राज्ञः' ।६।१।१२। इति यः, 'अनोऽट्ये ये' ७।४।५१। इति निषेधादनो लुगभाव: । राजन्यानां समूहः 'गोत्रोक्ष' ।६।२१२। इत्यकत्र । 'मनोरपत्यं 'मनोर्याणी षश्चान्तः' ।६।१।१४। इति ये षागमः, मनुष्याणां समूहः 'गोत्रो०६।३।१२। इत्यकत्र । तद्धितयस्वरे ।२।४।६२। इति यलोपे प्राप्त प्रतिषेधोऽयम् ॥१४॥ .
यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः ।२।४॥६॥
यादेः प्रत्ययस्य गौणस्याक्विबन्तस्य तद्धितलुकि लुक् स्यात् । नतु गोणीसूच्योः । सप्तकुमारः । पञ्चेन्द्रः। पञ्चयुवा । द्विप
गुः । गौणस्येति किम् । अवन्ती । अक्विपइति किम् । पञ्चकुमारी। अगोणीसूच्योरिति किम् । पञ्चगोणिः । दश सूचिः ॥६५॥ सप्तकुमार इत्यादि सप्त कुमार्यो देवताऽस्य संख्या समाहारे०१३।१।६६। इति द्विगुसमास:, देवतार्थस्याणः 'द्विगोरन' ।६।१।२४। इति लोपेऽनेन डीप्रत्ययस्यापि लोपः, 'निमित्ताभावे०' इति न्यायात् 'अस्य ङयां लुक्' ।२।४।६६। इति ड्यभावे तन्नैमित्तिकस्याल्लुकोऽप्य-भावेऽकारः प्रत्यावृत्तः एवं पञ्चेन्द्राण्यो देवताऽस्य पञ्चेन्द्रः । 'सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपाय' इति न्यायात् डीनिवृत्ती तत्संनियोगशिष्ट: आनपि निवृत्तः । पञ्चभिः युवतिभिः क्रीतः पञ्चयुवा 'मूल्यैः क्रीते' ।६।४।१५०। इतीकण 'अनाम्न्यद्विः प्लुप्' ।६।४।१४। इति लोपे स्त्रीविहित-तिप्रत्ययस्यापिनिवृत्तिः । एवं द्वाभ्यां पङ्गु-भ्यक्री-द्विपङ्गुः । अवन्तीति-अवन्तेरपत्यं स्त्री 'दुर्नादि०' ।६।१।११८। इति ध्यस्य 'कुन्त्यवन्तेः०' ।६।१।१२१। इति लोपः,पञ्चकुमारीति-कुमारीमिच्छतीति क्यनि कुमारीयतीति ततःक्विपि