________________
( ३३ )
-यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यादित्येव ? नियूंनी ॥७७॥ नकारान्तत्वात् ङीप्रत्यये प्राप्ते तदपवादोऽयं योगः । नि! नीति-'स्त्रियाँ नृतोऽ०' ।२।४।१। इति ङीः, 'श्वन्-युवन्०' ।२।१।१०६। इति वस्योकारः ॥७७॥
अनाषे वृद्धेऽ णिजौ बहुस्वरगुरूपान्त्यस्यान्तस्य व्यः ।२।४।७८।
अनार्षे वृद्ध विहितौ यावणिौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्तस्य ष्यः स्यात् । कारीषगन्ध्या। बालाक्या। अनार्षइति किम् । वासिष्ठी । वृद्धइति किम् । आहिच्छत्री । अणिन इति किम् । आतभागी । बहुस्वरेति किम् । दाक्षी । गुरुपान्त्यस्येति किम् । औपगवी । अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् । दौवार्या । औडुलोम्या ॥७॥ गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति । गुरुग्रहणं हि दीर्घ-परिग्रहा-थं संयोगपरपरिग्रहाथं च अन्यथा दीघोपान्त्येत्युच्येत । कारीषगन्ध्येति-करीषस्येव गन्धो यस्य स करीषगन्धिः, 'वोपमानात्' ।७।३।१४७। इतीत्समासान्तः । करीषगन्धे-र्वृद्धमपत्यं स्त्री 'डसोऽ पत्ये' ।६।१।२८। इत्यण - अनेन • 'प्यादेशः, षकार इत् । शब्दशक्ति-स्वाभाव्यात् ष्यादेश आबन्तसहित एव
स्त्रीलिङ्गमभिव्यनक्ति । बालाक्येति-बलाकाया अपत्यं स्त्री 'बाह्वादिभ्यो गोत्रे'।६।१।३२। इतीत्रि इअन्तत्वादनेन ध्यादेशः । वाशिष्ठीति-'ऋषिवृष्ण्य०' ।६।१।६१। इत्यण् । आहिच्छनीति-अहिच्छत्रे जाता 'जाते' ।६।३।१८। इत्यण् । आर्तभागीति-ऋतभागस्यापत्यमिति 'बिदादेवृद्धे' ।६।१।४१। इत्यत्र । दाक्षीति-दक्षस्यापत्यम् 'अत इन'।६।१।३१। इती, 'नुर्जाते:' ।२।४।७२। इति डीः । औपगवीति-उपगोरपत्यं स्त्री औपगवी। दौवार्यत्यादि द्वारस्यापत्यं स्त्री 'अत इन' ।६।१।३१। इतीन , 'द्वारादेः' १७१६। इत्योकारः ध्यादेशश्च । अत्रेत्रः पूर्वमबहुस्वरत्वेऽपीभि सति