________________
(
३२ )
संहितोरूः । सहोरूः। सफोरूः । वामोरूः । लक्ष्मणोरूः। उपमानादेरिति किम् । पीनोरुः ॥७५॥ उपमानादिरादिर्यस्येति लुप्तपञ्चमीकं समस्तं वा पदमिति । आदिशब्दः पूर्वावयववचनः तेन च समासलाभादूरोरूत्तर-पदत्वं गम्यते । संधीयते स्मेति क्त 'धागः'।४।४।१५।इति हो कृते'समस्ततहिते वा' ।३।२।१३९।इति विकल्पेन मकारलोपे सहितः,सह हितेन वर्तते इति वा सहितः,सहते इत्यचि सहः सहशब्दः अव्ययो वा विद्यमानार्थः, सफशब्द: संक्लिष्टार्थोऽव्युपन्नः दन्त्यादिः । वमतीति ज्वलादित्वाणे वामः। लक्ष्मीरस्यास्तीति 'लक्ष्म्या अनः' ।७।२।३२। इत्यने लक्ष्मणः । सहितो, संहितो, सही (विद्यमानौ), सफौ,वामी, लक्ष्मणौ ऊरू यस्या इति विग्रहः ॥७॥
नारीसखीपङ्गेश्वश्रू ।२।४।७६। . एते ङयन्ता ऊङन्ताश्च निपात्यन्ते। ७।६। नृब्दात् 'स्त्रियां नृतोऽ०' ।२।४।।। इति ङ्यां नरशब्दात् जाति-लक्षणे 'जातोरयान्त०'२।४।५४। इति धवयोगलक्षणे वा 'धवांद्योगाद०।२।४।५६। इति ङीरस्त्येव नारादेशार्थ निपातनम् । सखिशब्दात् 'इंतोऽक्तयर्थात् ।२।४।३२॥ इति विकल्पे प्राप्ते, धवयोगेऽप्यप्राप्ते, सखशब्दाच्च सह खेन वर्तते येति बहुव्रीहेरापि प्राप्तेऽनेन डीः । पङ्ग शब्दो गुणवचनः । नात्रक, वर्णव्यवहित-स्वरात्परः उकार इति 'स्वरादुतो०' ।२।४।२५।इत्यप्राप्तेऽनुष्यजातित्वादप्राणिजात्य-भावाच्च ‘उतोऽ०' ।२।४।७३। इत्यप्राप्तेऽर्थात्कस्मिंश्चिदपि स्त्रीप्रत्ययेऽप्राप्तेऽनेनोङिवधानम् । श्वशरशब्दाच्च जातिलक्षणे धवयोगलक्षणे च ङीप्रत्यये प्राप्ते ऊ,उकाराकारयोलोपश्च । अयं च यदा सज्ञाशब्दः तदा आपि श्वशुरा इत्येव भवति न तु श्वश्रूरिति ॥७६॥
यूनस्तिः ।।४७७॥