________________
(
३१ )
उदन्तान्नृजाते अ-प्राणिजातिवाचिनश्च स्त्रियामूङ् स्यात् । नतु य्वन्ता-द्रज्ज्वादिभ्यश्च । कुरूः । ब्रह्मबन्धूः ।अलाबूः । कर्कन्धः । उतइति किम् । वधूः । अप्राणिनश्चेति किम् । आखुः । जातेरि. त्येव । पटुः स्त्रीः। युरज्ज्वादिवर्जनं किम् । अध्वर्युः स्त्री। रज्जुः । हनुः ॥७३॥ ऊङिति दीर्घनिर्देशः उत्तरार्थः, तेन 'नारी-सखी.' ।२।४।७६। इत्यत्र श्वश्ररिति दीर्घान्तो निपातःसिद्धः । कुरूरिति-'दुनादि०।६।१।११७। इतिज्य स्य कुरो६ि।१।१११'इति लोपः,लोपाभावपक्षे तु कौरव्यमाण्डुका०।२।४७० इति सूत्रेण कौरव्यायणीति भवति । गोत्रत्वाज्जातित्वम् । ब्रह्मबन्धूरितिसमासान्त-प्रकरणे बहुलाधिकारात् ब्रह्मा बन्धूरस्या सेत्यत्रो ङः पूर्वं शेषाद्वा' ७।३।१७५।इति परोऽपि कच्प्रत्ययो न भवति । लिङ्गानाञ्च न सर्वभागिति जातित्वम् । तपः श्रुतादिगुणविहीनत्वादधमा द्विजजातिरनेनोच्यते । अलाबूःतुम्बी, कर्कन्धूः बदरी एतौ शब्दो अप्राणिजातिवचनौ 'प्राण्यौषधि०' ।६।२।३१। इति ज्ञापकादिह शास्त्रे प्राणिशब्देन तसा एव ग्राह्या नतू स्थावरा इति। अध्वर्युरिति-चरणत्वान्मनुष्यजाति-वाची। बहुवचनमाकृतिगणार्थम् यद्वा ऊश्चासावङ चेति बह्मबन्धरित्यत्र कच न भवति ॥७३॥
बाह्वलकद्र कमण्डलोस्नि ।२।४।७४। .
बाह्वन्तात् कद्रुकमण्डलुभ्यां च संज्ञायां स्त्रियामूङ् स्यात् । भद्रबाहूः । कद्रूः । कमण्लूः । नाम्नीति किम् । वृत्तबाहुः ॥७४॥ अप्राणिजाति-वाचिनः कमण्डलुशब्दात् अप्राणिनश्चेत्यनेन प्राप्ते नियमः क्रियते । रज्ज्वादिपाठेन ऊनिषेधे च प्राप्ते विधिः क्रियते इति । कयं कामण्डलेयः 'चतुष्पा० ।६।१८३। इति चतुष्पात्प्राणिजातिवाचिशब्दान्तरमेतद् शब्दानामानन्त्यात् ।।७४।।
उपमानसहितसंहित सहशफवामलक्ष्यणाहा रोः।२।४।७५॥ एतत्पूर्वपदादूरोः स्त्रियामूङ स्यात् । फरभोरुः। सहितोरूः ।