________________
( ३० )
-
'प्राकणिकाप्राकरणिकयोः ०' इति न्यायात् 'यत्रो डायन्च वा' | २|४|६७ | इति सूत्रात्प्रारब्धात् तद्धिताधिकारात्तद्धितीय एवेन गृह्यते न तु 'प्रश्नाख्याने वेत्र' |५|३|१२ε| इति कृत्सूत्रोक्तः तस्याप्राकरणिकत्वात् । सुतङ्गमेन निर्वृतेति 'सुतङ्गमादेरित्र' | ६ २२८५ । इतीञ्यनेन ङयां च सोतङ्गमी । करीषस्येव गन्धोऽस्या इति 'वोपमानात्' | ७|३ | १४७ । इतीत्समासान्तस्य पाक्षिकत्वात् करीषगन्धः । तस्यापत्यमिति 'अत इत्र । ६ । १ । ३१ । इतीत्रः .. 'अनार्षे वृद्ध ०' | २|४|७८ । इति ष्यादेशे सति इदन्तत्वाभावान्न भवति । अ- पत्येत्रन्तस्य मनुष्यजातिवचनत्वादुत्तरणैव सिद्ध े जात्यर्थोऽयमारम्भः । नन्वनपत्ये- त्रन्तस्ये- कारा- न्तत्वाव्यभिचाराद् 'इत:' इति विशेषमनर्थकमिति चेत्स - त्यमुत्तरार्थ - मिदमुत्तरत्र व्यञ्जनान्तमन्यस्वरान्तं चानेन व्यवच्छिद्यते । व्यञ्जनान्तं दरदित्यादि तत्रैवोदाहृतम् इह तु स्पष्टार्थमेवेत इत्युपादानम् ॥७१॥
नुर्जा: ।२।४।७२।
मनुष्यजातिवाचिन इदन्तात् स्त्रियां ङीः स्यात् । कुन्ती । दाक्षी । इत इत्येव । दरत् । नुरिति किम् । तित्तिरिः । जातेरिति किम् । निष्कौशाम्बिः ॥७२॥
1
,
" गौत्रं च चरणैः सह " इति जातित्वम् । कुन्तीति - 'दुनादि०' | ६ | १|११८६ | इति यस्य 'कुन्त्यवन्ते: ० ' | ६| १|१२१ । लोपः । दाक्षीति- दक्षस्यापत्यमिति ‘अत इञ ।६।१।३१। इतीत्र । दरदिति-दरदोऽपत्यं 'पुरु-मगध' ।६।१।११६। इत्यणः 'द्र' रत्रणो' | ६ |१| १२३ । इति लोपः । तित्तिरिरिति - पक्षिजातिर्न मनुष्यजातिरिति न भवति । निष्कौशाम्बिरिति — कोशाम्ब्या निर्गतेति क्रियाशब्दत्वात् जातेरिति वचनादिह न भवति ॥ ७२ ॥
उतो ऽप्राणिनश्चायुरज्ज्वादिभ्य | २|४|७३ |