________________
(
२८
)
त्वयोरेकार्थत्वेऽपि पृथगुपादानम् 'यथासङ्घयमनुदेशः समानाम् इति न्यायात् यथासङ्ख्यार्थम् । न्यायार्थरित्वत्थम्-सङ्ख्यया एकद्वयादिवचननिर्देशेन च . समानां तुल्यानां यथासङ्घय सम्यक् ख्यानं बु-द्धिनिमियर्थः । सङ्ख्या बोधक्रममनतिक्रम्य आद्यमाद्यन द्वितीयं द्वितीयेनेत्यादिरीत्याऽनुकूलं देशनं कथनं कार्यमित्यर्थः ।
अर्यक्षत्रियाद्वा ।२।४॥६६॥ आभ्यां स्त्रियां ङीर्वा स्यात् । ङीयोगे चानन्तः । अर्याणी । अर्या । क्षत्रियाणी । क्षत्रिया ॥६६॥ अधवयोगेऽ--यंविधिः । धवयोगे तु 'धवाद्योगाद०' ।२।४।५६। इति नित्यमेव ङीः । अर्य आर्य इत्येकाौँ । कुत्रचिदार्य इति पाठः ॥६६॥ .
यजो डायन च वा ।२।४।६७।
यजन्तात् स्त्रियां ङीः स्यात् । ङीयोगे च डायनन्तो वा स्यात् । गार्गी ? गाायणी ॥६७॥ डायन् इति डित्करणम् आसरायणीत्यत्रा-सुरिशब्देकारलोपार्थमन्यथा तु समानानां०' ।१२।१। इत्यनेनैव सिद्धः । वाशब्दस्य साक्षान्निर्दिष्टेन डायना सहैव सम्बन्धः न त्वनुमितेन ङीप्रत्ययेन प्रत्यासत्तेः अथवा 'षावटाद् वा' ।२।४।६९। इति सूत्रकरणाद्वा । गार्गीति–'अस्य ङ्यां लुक्' ।२।४।०६। इति व्यञ्जनात्तद्धितस्य' ।२।४।१८। इत्यकारयकारयोर्लोपः ॥६७।।
लोहितादिशकलान्तात् ।२।४६८। लोहितादेः शकलान्तात् यजन्तात् स्त्रियां डीः स्यात् । तद्योगे च डायनन्तः । लौहित्यायनी । शाकल्यायनी ॥६॥