________________
( २७ )
एभ्यो धववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो ङीः स्यात् । ङीयोगे चानन्तो वा । मातुलानी । मातुली । आचार्यानी । आचार्यो । उपाध्यायानी । उपाध्यायी ॥ ६३ ॥
आचार्यानीति - क्षुभ्नादित्वा णत्वा - भावः । ङीप्रत्ययस्य धवयोगे पूर्वणैव सिद्धत्वादनुद्यमानत्वादान एव विधीयमानत्वात् तस्यैव सम्बन्ध इत्याहङीयोगे आनन्तो वेति ॥ ६३ ॥
सूर्याद्देवतायां वा | २|४|६४
सूर्याद्धववाचिनो योगाद्देवतास्त्री वृत्तेर्डीर्वा स्यात् । ङीयोगे चानन्तः सूर्याणी | सूर्या । देवतायामिति । किम् । मानुषी सूरी ॥ ६४ ॥
सूर्येति पक्षे आवेव । मानुषी सूरीति-सूर्यस्याऽऽदित्यस्य वरप्रदानेन या मानुषीभार्या सा सूरी इत्युच्यते यथा कुन्ती । 'सूर्यागस्त्ययो० | २|४| ६६ | इति लोपः | ६४ |
यवयवना रण्यहिमाद्दोषलिप्युरुमहवे |२| ४|६५॥
एम्यो यथासंख्यं दोषादौ गम्ये स्त्रियां ङीः स्यात् । ङीयोगे चानन्तः । यवानी । यवनानी लिपिः । अरण्यानी । हिमानी ॥ ६५ ॥ दोषाद्यर्थविशेषोपादानाद धवाद्योगादिति च निवृत्तम् । दुष्टो यवो यवानी अवयवार्थोऽसन्ने वएवंविधो व्युत्पत्तये परिकल्प्यते । वस्तुतस्तु यवजाते ह जात्यन्तरं रालकाभिधानं यवानीत्युच्यते यवानां दोषकारि रालक इति नाम्ना द्रव्यान्तरमिति भावः । यवनानामियं लिपि: यवनानी एतद्विषये ङीप्रत्यय - विधानादुक्तार्थत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायात् 'तस्ये'दम्' । ६।३।१६० । इत्यण् न भवति । अर्थप्रत्यायनार्थमेव हि प्रकृतिप्रत्ययाः प्रयुज्यन्ते सोऽर्थो यद्यन्यैरुक्तः तदाऽर्थ प्रत्यायनरूपप्रयोजनस्य नष्टत्वात्तेषां प्रयोगो न भवति । उरु अरण्यम् - अरण्यानी । महद्धिमं हिमानी । उरुमह