________________
( २६ )
प्रत्ययस्य पाक्षिकी प्रवृत्तिः स्यादिति ऐरन्तस्येति कथनम-सङ्गतमिति चेन्मैवम् एयेऽग्नायी' ।३।२।५१। इति निर्देशात् ऐकारस्य प्रत्ययत्वे अग्नायोति न स्यात् । पूतक्रतोर्भार्या पूतक्रतायो एवं वृषाकपायोत्यादि । वृषं दानवमावकम्पितवानिति अम्भि-कुण्ठि०' । उणा० ६१४ । इति इः । कुसितकुसिदी ऋषी ॥६०॥
मनोरौ च वा ।२।४।६१ धववृत्तेर्मनोर्योगात स्त्रीवृत्ते-मर्वा स्यात् । ङीयोगे चास्य औरश्चान्तस्य । मनावी । मनायी । मनुः ॥६१॥ वाकारः प्रथम-विधेयतया ङी-प्रत्ययेन सम्बध्यतेन त्वीकारेण तत्सन्निधानेनाप्रधानत्वात् । चकारेणकारोऽनुकृष्यते-इत्याह औरैश्चेति । मनोभार्यामनावी, मनायी । औकारेण सम्बन्धे तु डी-प्रत्ययस्य नित्यत्वे मनावीमनायी, मन्वीत्याद्यनिप्टं रूपं स्यात् ॥६१॥ .
वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः ।२।४।६२। एभ्यो धववाचिभ्यो योगात्स्त्रीवृत्तिभ्यो डोःस्यात् । ङीयोगे आन् चान्तः । वरुणानी । इन्द्राणी । रुद्राणी । भवानी। शर्वाणी । मृडानी ॥६२॥ अकारकरणसामर्थ्यादेव 'लुगस्या०' ।२।१।१२३। इत्यस्याप्रवृत्तः आनितिदीर्घोच्चारणं मतसंग्रहार्थम् । आन् चेत्यविकारनिर्देशोऽसन्देहार्थः अन्तग्रहणाभावे आनपि भिन्नप्रत्ययः स्यात् । किञ्चान्तग्रहणाभावे 'अनेकवर्णः सर्वस्य' ।७।१।१०७॥ इति सर्वस्यादेशः स्यात् ॥६२॥
।
मातुलाचार्योपाध्यायाद्वा ।२।४।६३।