________________
( २५ )
नवर्जात्परो यो मलशब्दस्तदन्ताज्जातेः स्त्रियां ङोः स्यात् । दर्भमूली शीर्षमूली । अनत्र इति किम् ? अमूला ॥५८॥ दर्भमूलीत्यादि-दर्भस्येव, शीर्षे वा मूलमस्याः । अमूलेति-न विद्यते मूलानि यस्याः ॥५८।।
धबायोगादपालकान्तात् ।२।४५६।
धवो भर्ता, तद्वाचिनः सम्बन्धात् स्त्रीवृत्तः पालकान्तशब्दवर्जात् ङी स्यात् । प्रष्ठी । गणकी। धवादिति किम् । प्रसूता । योगादिति किम् । देवदत्तो वः । देवदत्ता स्त्री स्वतः । अपालकान्तादिति किम् । गोपालकस्य स्त्री गोपालिका। आदित्येव । सहिष्णोः स्त्री सहिष्णुः ॥५६॥
सम्बन्धादिति-योगः सम्बन्धश्च सम्बन्धिन-मपेक्षते स च प्रत्यासन्नत्वात् धवस्येव विज्ञायते, धवेन स्त्रियाः सम्बन्धा-दित्यर्थः । प्रष्ठस्य भार्या प्रष्ठी प्रष्ठः अग्रेसर एवं गणक्यपि । प्रसूतेति-विनिलु ठित-गर्भेत्यत्र । अस्त्यत्र योगस्तेन विना प्रसवाभावात् न तु धववाचि नाम । न हि पुसो गर्भो विलुटतीति । देवदत्त ति-अयं तु संज्ञाशब्दः स्वत एव स्त्रीवृत्तिः न तु धवयोगात् । पाल यतीति पालकः, गवां पालक: 'अकेन० ।३।१।१२। इति समास ॥५६॥
पूतक्रतुवृषाकप्यग्निकुसितकुसीदादै च ।२।४६०। एभ्यो धववाचिभ्यस्तद्योगात् स्त्रीबृत्तिभ्यो ङी: स्यात् । ङीयोगे चैषामैरन्तस्य । पूतकतायी । वृषाकपायी। अग्नायी। कुसितायी । कुसीदायी ॥६०॥ ननु प्रत्ययप्रकरणा-दैकारः इति विज्ञायते ततश्च समानप्रत्ययेन सह डी