________________
( २४ )
ओदनपाकीति-ओदनस्येव पाकोऽ-स्या सा । आखुकर्णीति-आखोः कर्ण इव कर्णः पत्रं यस्या सा। मुद्गपर्णोति-मुद्गस्येव पर्णान्यस्या सा । एता ओषधिजातीनां सज्ञाः । आसां जातीनां नित्यस्त्रीरूपत्वात् पूर्वेणाप्राप्ते वचनमेवमुत्तरसूत्रत्रयेऽपि । बहुपाकेति-बहुः पाकोऽस्याः । नायं जातिप्रवृत्तिनिमित्तः किन्तु क्रियासम्बन्धनिमित्त इति न भवति ॥५५॥
.
.
.
असत्काण्डप्रान्तशतकाञ्चः पुष्पात् ।२।४।५६। समादित्रर्जेभ्यः परो यः पुष्पशब्दस्तदन्ताज्जातेः स्त्रियां कीः स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् । सत्पुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । प्राकपुष्पा ॥५६॥ शङ्खवणे शङ्खशब्दः शङ्खपुष्पं यस्या सा शङ्खपुष्पी, सत्पुष्पेत्यादिसन्ति काण्डे प्रान्ते शतमेकं प्राक् पुष्पं पुष्पाणि वा यस्याः ।।५६।।
असम्भस्त्राजिनकशणपिण्डात्फलात् ।२।४।५७। समादिवर्जेभ्यो यः फलशब्दस्तदन्ताज्जातेः स्त्रियां डीः स्यात् । दासीफली । समादिप्रतिषेधः किम् । संफला । भस्त्रफला । अजिनफला । एकफला । शणफला। पिण्डफला ओषधिः ॥५७॥ दासीव फलं यस्या सा । सम्फलेत्यादि-संगतं भस्रव अजिनमिव एक च फलमस्याः । शणफलेति-शणस्येव फलान्यस्याः । पिण्डफलेति-पिण्डाकाराणि फलान्यस्या पिण्डफला कटुतुम्बी। ओषधिविशेषजातीनां सझा एता: ॥५७॥
अनजो मूलात् ।२।४।५८।