________________
( २३ )
जातिवाचिनोऽदन्तात् स्त्रियां ङीः स्यात् । नतु यान्तनित्यस्त्रीशूद्रात् । कुक्कुटी । वृषली । नाडायनी । कठी । जातेरिति किम् । मुण्डा । तवर्जनं किम् | क्षत्रिया । नित्यस्त्रीवर्जन मिति किम् । खट्वा । शूद्र वर्जनं किम् । शूद्रा आदित्येव । आखुः ॥५४॥
आकृतिग्रहणा जातिलिङ्गानां च न सर्वभाक् । सकृदाख्यातनिग्रह्या गोत्र व चरणैः सह ॥
जातिः काचित् आकृतिः अवयवरचना ग्रहणं यस्याः सा यथा गोत्वादिः । सकृदुपदेशव्यङ्ग्यत्वे सति अत्रिलिङ्गा द्वितीया यथा ब्राह्मणत्वादिः । अनि
त्वं देवदत्तादेरप्यस्त्यतः सकृदुपदेशव्यङ्ग्यत्वे सतीत्युक्तम् । गोत्रचरणलक्षणा च तृतीया । कुक्कुटीति - प्रथमजाति-भेदे उदाहरणम् । वृषलीति द्वितीय जाति-भेदे उदाहरणम् । गोत्रमपत्यम् । अपत्यं त्रेधाऽनन्तराप्रत्यं वृद्धापत्यं युवापत्यं च । चरणः वेदशाखाध्येता तथा चापत्यप्रत्ययान्तः, शाखाध्येतृवाचीच जातिकार्यं लभते । नाडायणीति - नडस्यापत्यं वृद्ध स्त्री नाडायनी 'नडादिभ्यः आयनण्' | ६ | १|५३ | इत्यायनं । कठीति-कठेन प्रोक्तं वेदं वेत्यधीत इति 'तेन प्रोक्त' | ६ | ३|१८१ । इत्यणः 'कठादिभ्यो वेदे लुप्’ ।६।१।१८३। इत्यनेन लुपि तद्वत्यधीते' | ६ |२| ११७ ॥ इत्यणः प्रोक्तात् ' | ६ |२| १२ | इति लुपि यां च सिद्धम् । एते द्व े तृतीयजातिभेदे उदा हरणे मुण्डेति मुण्डगुणयोगान्मुण्डा ॥ ५४ ॥
!
पाककर्णपर्णवालान्तात् । ।४।५५।
पाकाद्यन्ताया जातेः स्त्रियां ङीः स्यात् । ओदनपाकी । आखुकर्णो । मुद्गपर्णी । गोवाली । जातेरित्येव । बहुपाकाय वागूः
1
॥५५॥