SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ( २२ ) ऊढायाम् ||२|४|५१ पत्युः परिणीतायां स्त्रियां ङीः स्यात् । न चान्तस्य । पत्नी, वृषलस्य पत्नी ॥ ५१ ॥ याऽग्निसाक्षिपूर्वकेण परिणीता सेह गृह्यते । नामग्रहणे तदन्तविधिश्च ना-श्रीयते अतः केवलात्पत्युः परिणीतायां स्त्रियां ङी-रित्यर्थः । पत्युर्भाया पत्नी ॥ ५१ ॥ पाणिगृहीतीति |४| २|५२ ॥ पाणिगृहीतीतिप्रकाराः शब्दा ऊढायां स्त्रियां ङयन्ता निपात्यन्ते । पाणिगृहीती । करगृहीती | ऊढायामित्येव । पाणिगृहीतान्या ॥ ५२ ॥ इति शब्दः प्रकारार्थः सदृशार्थः इति यावत् । पाणिगृहीती इति प्रकारो येषान्ते सूत्रत्वाज्जसो लोपः । पाणिगृहीती - सदृशा इत्यर्थः । यस्या यथाकथचित्पाणिः गृहीतः सा पाणिगृहीता || ५२ || पतिवत्न्यन्तर्वत्न्यौ भार्यागभण्योः | २|४|५३ ॥ भार्या अविधवा स्त्री । तस्यां गर्भिण्यां च यथासंख्यमेतौ निपात्येते । पतिवत्नी । अन्तर्वत्नी ॥ ५३ ॥ निपातनात् पतिमच्छब्दात् ङीरस्य पतिवत्नादेशः एवं अर्न्तवत् शब्दात् ङीरस्यातवत्नादेशश्च सिद्धः । विगतो धवो यस्याः सा विधवाः न विधवा अविधवा जीवत्पतिरित्यर्थः । गर्भः कुक्षिगतोऽस्यास्तीति गर्भिणी ॥ ५३॥ जाते रयान्त नित्यस्त्रीशूद्रात् । २।४।५४।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy