SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ( २१ ) मासयातेति - मासशब्दः कालवचनः ||४३|| पत्युर्नः । २।४४८ । पत्यन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । तद्योगेऽत्तस्य न् च । दृढपत्नी । दृढपतिः । मुख्यादित्येव । बहुस्थूलपतिः पुरी ॥ ४८ ॥ बहुस्थूलपतिः पुरीति-स्थूलाः पतयो यासां ताः स्थूलपतयः इति कृते 'पत्युर्नः | २|४|४८ | इति नविकल्पाद बहवः स्थूलपतयः यस्यां सा बहुस्थूलपतिःपुरी। अत्र पत्यन्तबहुव्रीहिर्मु - ख्यो न भवति किन्तु स्थूलपत्यन्तो बहुव्रीहिः मुख्यो भवति यदा तु स्थूलश्च चासौ पतिश्च स्थूलपतिः ततः बहवः स्थूलपतयो यस्यां साबहुस्थूलपतिः पुरी तदापि स्थूलपत्यन्तो बहुव्रीहिः न तु पत्यन्तः इति न भवति ॥ ४८ ॥ सादेः |२|४|४| सपूर्वपदात्पत्यन्तात् स्त्रियां ङीर्वा स्यात् । तद्योगेऽन्तस्य न् च । ग्रामस्य पतिः । ग्रामपत्नी | ग्रामपतिः । सादेरिति किम् । पतिरियम् । ग्रामस्य पतिरियम् ॥४६॥ पूर्वेणैव सिद्धे पुनर्वचनं बहुव्रीहि-निवृत्त्यर्थम् ॥४६॥ सपत्न्यादौ |२|४|५०३ एषु पतिशब्दात् स्त्रियां ङीः स्यात् । अतस्य न् च । सपत्नी । एकपत्नी ॥५०॥ पुनविधानं नित्यार्थम् । समानः पतिरस्याः समानस्य पतिरिति वा सपत्नी । समानादेरित्यकृत्वा समुदायनिपातनं समानस्य सभावार्थं पंवद्भावप्रतिषेधार्थं च तेन 'समानस्य धर्मादिषु' | ३ |२| १४८ । इति धर्मादिषु पत्नीशब्द• स्यापाठेऽपि समानस्य सभावः सिद्धः एवं सपत्नीभार्यः, सपत्न्या अयं इत्यत्र 'परत: स्त्री० ' | ३ |२| ४६ | | २|३|५१ | इति च प्राप्तस्य पुंवदुभावस्य प्रतिषेधः सापत्न इति 'जातिश्च' सिद्धः ॥ ५० ॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy