________________
( २० )
लुप्समासः । अश्वेन क्रीतेत्यत्र ऐकपद्याभावात् करणं क्रीतान्तस्य नाम्नः आदिरवयवो न भवति ॥४४।।
क्तादालपे ।२।४४५॥ क्तान्तात् करणादेरल्पेर्थे स्त्रियां डीः स्यात् । अनविलिप्ती छौः। . अल्पाने त्यर्थः । अल्प इति । चन्दनानुलिप्ता स्त्री ॥४५॥ अभ्रविलिप्तीति-पूर्ववदस्याद्यन्तेन समासः । अल्पाम्रा द्यौरिति-भल्पाभ्रमाकाशमित्यर्थः । अल्पार्थस्य गम्यमानत्वादल्पशब्दस्याप्रयोगः । चन्दनानुलिप्तेति-अनल्पेन चन्दनेन लिप्तेत्यर्थः । स्तोकेन चन्दनेन लेपासम्भवान्न तस्याल्पत्वमुपाधिर्विवक्ष्यते इत्यल्पत्वाभावात् ङीन भवति ।।४५॥
स्वाङ्गादेरकृतमितजातप्रतिपन्नाद्बहुव्रीहेः ।।४।४६॥ स्वाङ्गादेः कृतादिवर्जात् क्तान्ताद् बहुव्रीहेः स्त्रियां डीः स्यात् । शङ्खभिन्नी । उरुभिन्नी । कृतादिवर्जनं किम् । दन्तकृता । वन्तमिता । दन्तजाता । दन्तप्रतिपन्ना ॥४६॥ पूर्ववत्पारिभाषिकं स्वाङ्ग ग्राह्यम् शङ्खौ भिन्न्नो यस्याः सा शङ्खभिन्नी उरू भिन्नो यस्या सा उरुभिन्नी ॥४६॥
अनाच्छादजात्यादेर्नवा ।२।४।४७। आच्छादवर्जा या जातिस्तदवयवात् कृतादिवर्जात् क्तान्ताद् बहुवीहे. स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्घी शाङ्गरजग्घा । आच्छादवर्जनं किम् ? वस्त्रच्छन्ना । जात्यावेरिति किम् । मासजाता । अकृताद्यन्तादित्येव । कुण्डकृता ॥४७॥