________________
( 88 )
कबरमणिविवरादेः | २|४|४|
एतत्पूर्वपदात् पुच्छात् स्त्रियां ङीनित्यं स्यात् । कबरपुच्छी । मणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ ४२ ॥
विकल्पस्तु पूर्वेणैव सिद्ध: किन्तु नित्यार्थं पुनर्विधानम् । कबरं - कर्बुरं कुटिलं वा पुच्छमस्या कबरपुच्छी । मणिः पुच्छेऽस्याः मणि- पुच्छी, विषं पुच्छेऽस्या विषपुच्छी, शरं पुच्छे स्या शरपुच्छी । मणिच्पुछीत्यादिषु 'न सप्तमीद्वादिभ्यश्च' | ३|१|१५५ ॥ इति सूत्रादिन्द्वादित्वात् मण्यादिशब्दानां पूर्वनिपातः ||४२ ||
पक्षाच्चोपमानादेः | २|४|४३|
उपमानपूर्वात् पक्षात् पुच्छाच्च स्त्रियां ङीः श्यात् । उलूकपक्षी शाला । उलूकपृच्छी सेना ॥४३॥
उलूकस्य पक्षाविव पक्षावस्याः सा उलूकपक्षी शाला । उपमीयतेऽन्येति बाहु लकात् 'उपसर्गादातः’।५।३।११० । इत्यङ् 'कबर - मणि- विषशबरादेः पक्षाच्चोप मादेस्तु' इत्येकयोगाकरणात् स्वाङ्गादेरिति निवृत्तम् । उलूकस्य पक्षविव पक्षावस्या उलूकपक्षी शाला । उलूकस्य पुच्छमिव पुच्छमस्या:उलूकपुच्छी सेना |४३|
क्रीतात् करणादेः । २।४।४४॥
करणादेः क्रीतान्ताददन्तात् स्त्रियां ङीः स्यात् । अश्वक्रीती । मनसाक्रीती । आदेरिति किम् | अश्वेन क्रीता ॥ ४४॥
I
अश्वेन क्रीयते स्म अश्वक्रीती 'गतिकारकङस्युक्तानाम् ०' इति न्यायात् विभक्तय त्पत्तेः पूर्वमेव कृदन्तेन' कारकं कृताः | ३ | १ | ६८ ॥ इति समासः अन्यथा विभक्तयन्तस्य समासेऽन्तरङ्ग' 'आत्' | २|४|१८ । इत्यापि विभक्तौ चादन्तत्वा भावात् ङीर्न स्यात् । मनसा क्रीतीत्यत्र 'नाम्नि' | ३|२| १६ | इत्य