________________
( १८ )
I
तुङ्गनासिकी। तुङ्गनासिका । कृशोदरी । कृशोदरा । विम्बोष्ठी । बिम्बोष्ठा । दीर्घजङ्घी । दीर्घजङ्घा । समदन्ती । समदन्ता । चारुकणीं । चारुकर्णा । तीक्ष्णशृङ्गी । तीक्ष्णशृङ्गा । मृद्वङ्गी । मृद्वङ्गा । सुगात्री । सुगात्रा । सुकण्ठी। सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् । तेन बहुस्वरसंयोगो-पान्तेभ्योऽ न्येभ्यो माभूत् । सुललाटा सुपाव ॥३६॥
कृशमुदरं यस्याः सा । बिम्ब इत्र ओष्ठौ यस्या सा बिम्बोष्ठी । 'वोष्टीती समासे' ।१।२।१७। इति सूत्रण विकल्पेन विम्बाकारलोपः । पूर्वेण सिद्ध नियमार्थमिदम्, तेन नासिकोदराभ्यामेव बहुस्वराभ्याम् ओष्ठादिभ्य एव च संयोगोपान्तेभ्यः भवति नान्येभ्य || ३६ ||
नखमुखादनाम्नि | २|४|४०|
सहादिवर्ज पूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्यामसंज्ञायामेव स्त्रियां ङीर्वा स्यात् । शूर्पनखी । शूर्पनखा | चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति ? किम् शूर्पणखा | कालमुखा ॥४०॥
शूर्पनखीति - शूर्प इव नखोऽस्या इति समासः शूर्पाकारनखयोगोऽ-त्र न तु सञ्ज्ञाऽ-त विकल्पेन ङीः । शूर्पणखेत्यादि - संज्ञाशब्दावेतो न तु यौगिको 'पूर्वपदस्थान्ना० ' |२| ३ |६४ | इति णत्वम् ||४०||
पुच्छात् ।२।४।४१।
सहादिवर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात् । दीर्घपुच्छी । दीर्घपुच्छा ॥४१॥
नासिकादिनियमान्निवृत्तौ वचनम् । नन्वेवं तर्हि नासिकादिसूत्र एव पठ्यतां कि पृथक्पाठेनेति चेत्सत्यम् पुच्छादित्यस्यैवोत्तरत्रानुवृत्त्यर्थम् । दीर्घ पुच्छमस्याः सा दीर्घपुच्छी ॥४१॥