________________
( १७ )
त इतिचेतिचानुवर्तते । आभ्यां स्त्रियां कीर्वा स्यात् । तद्योगे तः क्नः । पलिक्नी । पलिता । असिक्नी । असिता ॥३७॥ पलितशब्दः केशरोग-विषये वर्ण वर्तते । पलितमस्यास्तीति 'अभ्रादिभ्यः' ।७।२।४६। इत्य-प्रत्ययः ङ्यां च पलिक्नी वृद्धा । असिक्नी-अन्तः-पुरदूती। असितशब्देन सितप्रतिपक्षो वर्ण उच्यते तदा ङीः, यदा तु सिता-बद्धा। तदा न सा वर्ण इति तत्र द्वयमपि ङीः कनश्च न भवति ॥३७॥
असहनन -विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ।२।४॥३८॥ सहादिवर्जपूर्वपदं यत स्वाङ्ग तदन्तात् कोडादिवर्जाददन्तात् स्त्रियां डोर्वा स्यात् । पीनस्तनी । पीनस्तना। अतिकेशो । अतिकेशा माला। सहादिवर्जनं किम् । सहकेशा । अकेशा । विद्यमानकेशा। कोडादिवर्जनं किम् । कल्याणक्रोडा । बहुगुदा । वीर्घवाला। स्वाङ्गादिति किम् । बहुँशोफा । बहुज्ञाना । बहुयवा ३८.
अविकारोऽ-द्रवं मूत, प्राणिस्थं स्वाङ्गमुच्यते । ___ च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ इति पारिभाषिकं स्वाङ्गमिह गृह्यते । विकारः वातादिक्षोभजन्मा शोफादिस्तत् स्वाङ्गन भवति । रूपादियोगो मुर्तिः तद्योगान्मूतं पुद्गलद्रव्यम् अक्रोडादिभ्य इत्यत्र बहुवचनमाकृतिगणार्थम् । बहुशोफेति-विकारत्वान्न भवति । बहुज्ञानेंति-मूर्ताभावान्न भवति ॥३॥
नासिकोदरोष्ठजवादन्तकर्णश्रृङ्गाङ्गगात्रकण्ठात् १२॥४॥३६॥ सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गभ्यः स्त्रियां ङीर्वा स्यात् ।