________________
( १६ )
------ सत्वे निविशतेऽ-पैति, पृथग्जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च, सोऽ -सत्वप्रकृतिर्गुणः ॥ सत्त्वं द्रव्यं तत्र निविशते तदेवाश्रयति यः स गुणः । द्रव्यादपैत्य-पगच्छति । यथाऽऽ-म्रान्नीलता पीततायामुपजातायां पृथग्जातिषु भिन्नजातीयेषु दृश्यते, यथा सैव नीलता आम्र दृष्टा तरुणतृणेषु दृश्यते । एतेन सर्वेण जातिगुणो न भवतीत्युक्तम् । आधेय उत्पाद्य: यथा कुसुम-संयोगाद् गन्धो. वस्त्रे यथा वाऽ-ग्निसंयोगाद्घटे रक्तता । अक्रियाजः-नित्यः यथाऽऽ-काशादिषु क्रियाया महत्त्वादि एवमुत्पाद्यानुत्पाद्यत्वप्रकारद्वयप्रदर्शनेन उत्पाद्यत्वेकप्रकारायाः क्रियायाः व्यवच्छेदः । असत्त्वप्रकृतिः द्रव्यस्वभावरहितः, अनेन द्रव्यस्य व्यवच्छेदः तथा च द्रव्यभिन्नत्वे सति क्रियाभिन्नत्वे सति जातिभिन्नत्वे सति द्रव्याश्रितत्वं गुणस्यलक्षणमित्यायाति । गुणादिति सामान्योक्तावपि केवलगुणवृत्त: स्त्रीत्वायोगात्त-तो द्रव्यवृत्तः प्रत्ययः । आख:स्त्रीति जाति-शब्दोऽयम् । खरुरिति-क्रूरा मुर्खा दर्पिष्टा श्वेता वा स्युच्यते ।
श्यतैतहरितभरितरोहिताद्वर्णात्तो नश्च ।।४।३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् । तद्योगे तो न च । श्येनी । श्येता । एनी । एता ।हरिणी । हरिता । भरिणी। भरिता । रोहिणी । रोहिता । वर्णादिति किम् । श्येता । एता ॥३६॥ श्येनादीनां शब्दानां वर्णत्वमनुपपन्नमतोऽ-यमों विज्ञायते इत्याह वर्णवाचिभ्यः इति । वाऽ धिकारः प्रधानत्वात् प्रत्ययविधिनैव सम्बध्यते । श्येनी-शुभ्रा, एनी-कर्बुरा शुभ्रा वा, हरिणी-नीला । भरणी-पाटला धूसरा घृतवर्णा वा । रोहिणी रक्ता इत्यर्थः । चकारो नकारस्य डी-सन्नियोगशिष्टतार्थः-अयं भावः-चकारः यस्मात्परः श्रूयते तस्य भावे द्वितीयापेक्षा प्रतीयते तेन केवलो नकारो न भवति, सन्नियोगे एव भवति, असति च-ग्रहणे तु अयमर्थो न लभ्येत ॥३६।।। क्नः पलितासितात् ।२।४।३७।