________________
( १५ )
अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती। पद्धतिः।३३। क्तिप्रत्ययान्तत्वादप्राप्ते वचनम् । पादाभ्यां हन्यत इति 'श्वादिभ्यः' ।५।३।६२। इति क्तिः, 'हिमहति०' ।३।२।९५॥ इति पदादेशः । अथवा हननं इतिः, पादस्य हतिः॥३३॥
शक्तः शस्त्रे ।।४॥३४॥ अस्माच्छस्त्र स्त्रियां ङीर्वा स्यात् । शक्ती। शक्तिः। शस्त्र इति किम् । शक्ति: सामर्थ्यम् ॥३४॥ शक्यतेऽनया हन्तुमिति श्वादित्वात् क्तौ ङ्यां च शक्ती। शक्तिशब्दस्य क्तयन्तत्वादक्तयर्थादिति निषेधे प्राप्ते शस्त्रवाचिनो विकल्प आरभ्यते
॥३४।।
...
स्वरादुतो गुणादखरोः ।२।४।३५॥ स्वरात्परो य उस्तदन्ताद् गुणवचनात् खरुवर्जात स्त्रियां ङीर्वा स्यात् । पटवी । पटुः। विभ्वी। विभुः । स्वरादिति किम् । पाण्डु- भूमिः । गुणादिति किम् आखुः स्त्री । अखरोरिति । खरुरियम् ॥३५॥ 'स्वरादिति पञ्चम्यन्तस्याव्यवहितोत्तरत्वमर्थः ‘पञ्चम्या निर्दिष्टे परस्य' ।७।४।१०४।। इति न्यायात् । स्वरादव्यव- हितोत्तरत्वं केवलं 'तितउ' शब्दे दृश्यते किन्तु स न गुणवाचीति गुण-वाचकशब्दे स्वराव्य व-हितोत्तरस्योकारस्या-सम्भवात् 'येन नाव्य-वधानम्०', इति न्यायात् स्वरोकारयोर्मध्ये
एकस्य व्यञ्जनस्य व्यवधानेऽपि स्वरोत्तरत्वविशिष्टोकारान्तात् गुण• वाचकात् स्त्रियां ङी-र्भवतीति सूत्रार्थः निष्पन्नः । अर्थे कार्यासम्भवादुत इत्यादि-विशेषणायोगाच्चोपचाराद् गुणवचन-शब्दः गुण इत्युच्यते । अथ ग्रन्थकृदभिमतं गुणस्य स्वरूपं प्रदर्श्यते