SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ( १४ ) आयसी । कुशाया । कामुकी रिरंसुः। कामुकाऽन्या । कटी श्रोणिः । कटाऽन्या । कबरी केशपाशः। कबराऽन्या ॥३०॥ यथासंख्यमिति-सम्यक् ख्यायतेऽनयेति-संख्या क्रमवैशिष्टयन ज्ञानम् तामनतिक्रम्य-यथासंख्यम्, मिथः साकाङ्क्षाणां पदार्थानां येन क्रमेण ज्ञानंतेन क्रमेणान्वय इति तदर्थः। आवपन्ति धान्यानि यत्र तद् आ-वपनम् । करणेन निर्वृत्ता 'वितस्त्रिमक०।५।३।८४।इति त्रिमकि कृत्रिमा न कृत्रिमा अकृ- . विमाअन्या-। अमत्रम्-भाजनम् । कुशा काष्ठमयी तदाकृतिर्वल्गा वा। रिरंसुः-रन्तुमिच्छु:, मैथुने च्छुरित्यर्थः । केशपाशः-केशरचनाविशेषः इत्यर्थः, अन्या-कबरवर्णेत्यर्थः ॥३०॥ wamanmmmons-winnamrouTRANE नवा शोणादेः ।२।४॥३१॥ शोणादेः स्त्रियां डीर्वा स्यात् । शोणी । शोणा । चण्डी । चण्डा। ॥३१॥ शोण वर्णे अस्याचि-शोण उज्ज्वलो वर्णः, निर्दोषरक्तः वर्ण इत्यर्थः । चण्डी-कोपनायामनेनैव विकल्पः, गौर्यां तु गौरादिपाठान्नित्यं ङी: ॥३१॥ . इतोक्त्य र्थात् ।२।४।३२॥ क्त्यऽर्थप्रत्ययान्तवर्जादिदन्तात् स्त्रियां डीर्वा स्यात् । भूमी। भूमिः । धूलीः । धूलिः । अक्त्यर्थादिति किम् । कृतिः। अकरणिः । हानिः ॥३२॥ भूधातोः 'कृभम्यां कित्'। उणा० ६९०। इति मिप्रत्यये भूमिः । 'धग्श कम्पने' 'ध-मभ्यां लिक उणा० ७०१। इति लिकि धूलिः । अकरणिरिति 'नञोऽनि: शापे' ।५।३।११७इत्यनिः हानिरिति 'ग्ला-हा-ज्यः' ।५।३।११८। इत्यनिः ॥३२॥ पद्धतेः ।२।४॥३३॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy