SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ( १३ ) कार्योऽन्यथा गौणत्वाभावात् 'गोश्त्रान्ते' | २|४|१६| इत्यप्रवृत्तावदन्तत्वा. भावाद् ङीनं स्यात् ॥२८॥ केबलमामकभागधेयपापापरसमानार्थकृतसुमङ्गलभेष जात् ||४|२६| एभ्यो नाम्नि स्त्रियां ङीः स्यात् । केवली ज्योतिः । मामकी । भागधेयी । पापी । अपरो । समानी आर्यकृती । सुमङ्गली । भेषजी | नाम्नीत्येव । केवला |२६| ममेयं 'वा युष्मदस्मदो०' | ६ | ३ |६७ | इति सूत्रेणात्र - प्रत्यये ममकादेशेचानेन ङयां च मामकीति । ननु मामकशब्दस्यानन्तत्वेन 'अणजे ० ' | २|४| २० इति सूत्रेणैव ङी-सिद्धौ संज्ञायां नियम्यते मामकशब्दस्य नाम्न्येवेति तेनासंज्ञायां मामिका बुद्धिरित्यत्रात्रन्तलक्षणोऽपि ङोर्न भवति । भागशब्दात् 'नामरूपभागाद्धयः' | ७|२| १५८ । इति स्वार्थे धेयप्रत्यये भागधेयोति मामकी मातुलानी, भागधेयी, बलिः, पापी अपरी ओषध्यौ । समानी - छन्दः, आर्यकृती क्रियाविशेषः, सुमङ्गली छन्दः ओषधिर्वा, भेषजी ओषधिः । ॥२६॥ भाजगोणनागस्थलकुण्डकालकुशकामुककटकब रात् पक्वा वपन स्थूलाऽकृत्रिमाम त्रकृष्णायसीरिरं सुश्रोणिकेशपाशे | २|४|३०| एम्यो यथासंख्यं पक्वादिष्वर्थेषु स्त्रियां नाम्नि ङीः स्यात् । भाजी पक्वा चेत् । भाजाऽन्या । गोणी आवपनम् । गोणान्या । नागी स्थूला । नागान्या । स्थली अकृत्रिमा | स्थलाऽन्या । कुण्डी अमत्रम् । कुण्डान्या । काली कृष्णा । कालाया । कुशी 1
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy