________________
( १२ )
आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां ङीः स्यात् । रेवती । रोहिणी । रेवत्यां जाता रेवती । भ इति किम् । रेवता ॥ २६ ॥
,
रेवत्यां जाता रेवतीति - 'चित्रारेवती० ' | ६|३|१०८ । इत्यणो लप् 'ङयादेगौ-णस्या०' |२|४|ε५। इति ङी प्रत्ययस्य लोपः । रेवतीशब्देन कन्याया वाच्यत्वाद् गौणस्यापि रेवतीशब्दस्य नक्षत्र वर्तमानत्वादनेन ङीः । नन्वत्र “गौरादिभ्यः' | २|४|११ | इति सूत्राद् मुख्याधिकाराद् गोणान्न भविष्यतीति चेन्मैवं मुख्याधिकारेऽपि क्वचिच्छाब्द्या वृत्त्या प्राधान्यं ग्राह्यं क्वचिदार्थ्या वृत्त्या अत्र तु यदि रेवतीशब्दस्य नक्षत्रलक्षणोऽर्थो वाच्यो न भवेतह तद्विशिष्ट: कालोऽपि वाच्यो न स्यात् रेवतेति - 'आत्' ।२।४।१८। इत्याप् प्रत्ययः ||२६||
नीलात्प्राण्योषध्योः | २|४|२७|
प्राणिन्यौषधौ च नीलात् स्त्रियां ङीः स्यात् । नीली गौः । नीली औषधिः । नीलाऽन्या ॥२७॥
नीली औषधिरिति - नीली औषधि जातिरिति जातिशब्द जाती नित्यस्त्रीत्वात् 'जाते०' |२|४|५४ । इत्यप्राप्तेऽनेनैव ङीः ये तु नीलः पटः इत्यर्थान्तरेऽपि वृत्तिदर्शनादनित्यं स्त्रीत्वमभ्युपगच्छन्ति तेषां गुणशब्दस्यैवोदाहरणम् जातिशब्दात्त 'जाते० ' | २|४|५४ | इत्यनेन ङीः सिद्ध एव ||२७|
,
क्ताच्च नाम्नि वा | २|४|२८|
नीलात् क्तान्ताच स्त्रियां संज्ञायां ङीर्वा स्यान् । नीली। प्रवृद्धविलूनी । नीला । प्रवृद्धविलूना ॥ २८ ॥
प्रवृद्धविसुनीति - प्रवृद्धा चासो विलना चेति प्रवृद्धविलनी औषधिविशेषः • अखण्डः सञ्ज्ञा - शब्दः व्युत्पत्तिमात्रमिदम् । प्रवृद्धा चासौ विलनीति त्वकथनमात्रं विग्रहस्तु प्रवृद्धश्चासौ विलूनश्च स्त्री चेत्प्रवृर्द्धविलूनीति