________________
( ११ )
कार्यासं भवात् परिमाणवाची यः शब्दस्तदन्तादित्यर्थः । द्विकुडवीति"मूल्यैः क्रीते' ।६।४।१५०। इतीकण ‘अनाम्न्यदिवः प्लुप' ।६।४।१४।२। इति लप । द्विपण्येति-द्वाभ्यां पणाभ्यां कीतेति ‘पणपदमाषाद्यः ।६।४।१४८। इति यः तस्य च विधानसामर्थ्यादलुप् द्विबिस्तेत्यादि-द्वाभ्यां बिस्ताभ्यां क्रोतेत्यादि ।॥२३॥
काण्डात् प्रमाणादक्षेत्र ।२।४।२४। प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद् द्विगोस्तद्धितलु कि स्त्रियां ङीः स्यात् । आयामः प्रमाणम् । द्वे' काण्डे प्रमाणमस्याः द्विकाण्डी रज्जुः । प्रमाणादिति किम् । द्विकाण्डा शाटी । अक्षेत्र इति किम् । द्विकाण्डा क्षेत्र: क्तिः ॥२४॥ द्विकाण्डी रज्जुरिति-'प्रमाणान्मात्रट्' ।७।१।१४० इति मात्रट 'द्विगोः संशये च' ।।४।१४४। इति मात्रटलोप। षोडशहस्तप्रमाणं काण्डम् । द्विकाण्डा शाटोति-द्वाभ्यां काण्डाभ्यां क्रीतेति 'मूल्यैः क्रीते' ।६।४।१५०। इतीकण तस्य च 'अनाम्न्यद्विः प्लप्' ।६।४।१४१। इति लोपः । क्षेत्रभक्तिरिति-क्षेत्रविभाग इत्यर्थः । भक्ति-ग्रहणं तद्धितान्तस्य स्त्रीत्वार्थम् ॥२४॥
पुरुषाद्वा ।।४।।
प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलु कि स्त्रियां डोर्वा स्यात् । द्विपुरुषो। द्विपुरुषा परिखा । तद्धितल कीत्येव । पञ्चपुरुषाः समाहृताः पञ्चपुरुषी ॥२५॥ द्विपुरुषीति-चतुर्हस्तः पुरुषः द्वौ पुरुषो प्रमाणमस्या इति मात्रटो 'हस्तिपुरुषाद्वाण' ।७।१।११४१। इत्यणो वा 'द्विगोः संशये च' ७१।१४४। इति लुप् । पञ्चपुरुषीति-द्विगोः समाहारात्' ।२।४।२२। इति नित्यमेव ॥२५॥ रेवत रोहिणाझे ।२।४२६॥