________________
( १० )
भवितव्यम्- "आकृति-ग्रहणा जातिः, अत्रिलिङ्गा च यान्विता।
आजन्मनाशमर्थानां, सामान्यमपरे विदुः ॥ . आकृतिग्रहणा जातिरिति प्रथ मलक्षणानुसारेणायावद्भव्यभाविनोऽपि कुमारीत्वस्याकृतिग्रहणत्वाज्जातित्वे सिद्ध प्रपञ्चार्थमिदम् । अत्रिलिङ्गा च यान्विता आजन्मनाशमर्थानामिति द्वितीयलक्षणानुसारेण तु जातित्वस्य याबद्रव्यभावित्वान्नायं जातिरिति पुनर्वचनमर्थवदित्यलम् ॥२१॥
द्विगोः समाहा रात् ॥२॥४॥२२॥ समाहारदिगोरदन्तात् स्त्रियां डोः स्यात् । पञ्चपूली, दशराजी ॥२२॥ पञ्चपूलीति-पञ्चानां पूलानां समाहारः । दशराजीति-दशानां राज्ञां समाहारः 'राजन्सखेः' ।७।३।१०६। इत्यः । अत्र ‘पात्रादि०' इत्यादिलिङ्गानुशासनेन स्त्रीत्वम् ॥२२॥
परिमाणात्तद्धितलुक्यबिस्ताचित-कम्बल्यात् ।२।४।२३॥ परितः सर्वतो मानं परिमाणं, रुढः प्रस्थादिबिस्तादिवर्जपरिमाणान्ताद् द्विगोरदन्तात् तद्धितलु किं स्त्रियां डीः स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी। परिमाणादिति किम् । पञ्चभिरशिव क्रीता पञ्चाश्वा । तद्धितल कीति किम् । द्विपण्या। बिस्तांददर्जनं किम् । द्विविस्ता । द्वयाचिता । द्विकम्बल्या ॥२३॥ ऊर्वमानं किलोन्मानं, परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्, संख्या बाह्या तु सर्वतः ।। सर्वतः आरोहपरिणाहाभ्यां मीयते परिच्छिद्यतेऽ-नेनेति अर्थे । ..