________________
बैदी। सौपर्णेयी । आक्षिकी। स्त्रैणी। पौंस्नी। जानुदध्नी।२०।
औपगवीति-उपगोरपत्यम् स्त्री 'ङसोऽपत्ये' ।६।१।२।८। इत्यण्, 'वृद्धिः स्वरेष्वा०' ।७।४।२। इति वृद्धिः, अस्वयम्भुवोऽव' ७४।७०। इत्यवादेशः, बंदीति-बिदस्यापत्यं पौत्री 'बिदादेव द्ध'।६।१।४१। इत्यत्र । सौपर्णेयोतिसपा अपत्यं स्त्री सौपर्णेयो 'ड्याब्ल्यङ ।६।१७१। इत्येयण । आक्षिकोति-अक्षौ-र्दीव्यतीति 'तेन जित०' ।६।४।२। इतीकण् । स्त्रैणीतिस्त्रिया अपत्यं स्त्रैणी पुसोऽपत्यं पोस्नी 'प्राग्वतः स्त्रीपुसान्न ।' ।६।१।२५। इति नत्र -स्नत्रौ । जानुदघ्नीति-जानु ऊध्वं प्रमाणमस्या 'वोध्वं दध्नट०' ।७।१।१४२। इति दध्नट, टित्त्वादनेन डीः । प्रत्ययसाहचर्यादागमटितो न भबति-पठिता विद्या । अणादीनां षष्ठीनिर्देशेन अकारस्य विशेषणादणादीनां योऽवारस्तत एव ङीप्रत्ययो भवति । तेन पाणिनिना प्रोक्त पाणिनीयम्'तद्वेत्यधीते' ।६।२।११७।इत्याप्रोक्तात्'।६।२।१२९।इति लो पाणिनीया कन्येत्यत्र न भवति - पाणिनोऽपत्यं 'ङसोऽपत्ये ।६।१।२८। इत्य ण 'गाथिविदथि०' ७।४।५०। इत्यन्त्यस्वरादिलोपः तदनन्तरं पाणिनस्यापत्यं पाणिनिः "अतः इन' ।६।१।३१। इतीज ॥२०॥
वयस्यनन्त्ये ।२।४।२१॥
कालकृता शरीरावस्था वयस्तस्मिन्नचरमे वर्तमानादकारान्तात् स्त्रियां ङोः स्यात् । कुमारी । किशोरो । भूटी। अनन्त्यइति किम् । वृद्धा ॥२१॥
धवयोगाभावविशिष्ट-वयः कुमारी-शब्दस्य प्रवृत्तिनिमित्तम् चत्वारि वयांसि-कुमार-यौवन-मध्यम-वृद्धत्वानितथा चाहुः- प्रथमे वयसि नाधीतं, द्वितीये नाजितं धनम् ।
तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति । कुमारयति क्रीडयतीति कुमारी कुत्सितो मारो मन्मथो यस्या वाऽनूढत्वात् बध्नातिकटाक्षरितिबन्धे'।उणा-१५७ इति किदूटिअनेन ड्यां च वधूटी। ननु आकृतिग्रहणत्वात् कुमारी-शब्दस्य जातित्वात् जाति-लक्षणेनैव ङीप्रयत्येन