________________
२९)
न तु सर्वत्रेति ख्यापनार्थः 'सर्व वाक्यं सावधारणम्' इति न्यायः । एतेन न्यायेनैवस्याप्रयोगेऽपि 'समानानाम् ०' | १|२|| इत्यत्र दीर्घः स्यादेवेति वाक्यस्यावधारणाद्दण्डाग्रमित्यत्र दीर्घोऽभूदेव । नन्ववर्णात्परे णावर्णेतर समानेन देवेन्द्र' इत्यादावपि दीर्घो भविष्यतीति नाशङ्कनीयम् 'येन नाप्राप्ते० ' इति न्यायात् 'अवर्णस्ये० ' |१| २|६ इति सूत्रेण 'समानानाम् ० ' | १||१| इत्यस्य बाधात् । एवमिर्णादेः परेण इवर्णेतरसमानेन 'दध्यत्र' इत्यादौ दीर्घो भविष्यतीति न च वाच्यम् । नद्येषा इत्यादौ 'इवर्णादे: ' | १|२|१| इत्यस्य सावकाशत्व देवं दण्डाग्रमित्यादी 'समानानां०' | १|२| १ | इत्यस्य सावकाशाद् 'दध्यत्र' इन्यादौ द्वय: स्पर्धासत्त्वात् 'स्पर्द्ध' | ७|४|११९ । इति परिभाषया परत्वात् 'इवर्णादे: ० ' | १|२|२१| इत्येव प्रवर्तते ॥१॥
'ऋलृति हस्वो वा' १ ।। २ । २ ।
ल
ऋति लृति च परे समानानां ह्रस्वो वा स्यात् । बाल ऋश्यः, ऋषभः, होतृ लृकारः । पक्षे बालः ॥ २ ॥
1
ऋश्च. लुच्च ऋलृत् तस्मिन् समानानामित्यनुवर्तते । 'ह्रस्वोऽपदे वा' | १|२|२२| इत्येव सिद्धाववर्णाथ पदार्थं च वचनम् । वल प्राणनधान्यावरोधयोः बलति प्राणिति मातुस्स्तन्येनेति बाल: 'वा ज्वलादिः ० ' | ५|१६२ | इति णः । ऋश्यो हरिण : बालश्चासौ ऋश्यश्च बाल ऋश्यः हरवकरणसामर्थ्यात् कार्यान्तर न भवति । अत एव ह्रस्वस्यापि ह्रस्वः क्रियते । 'पर्जन्यवल्लक्षण प्रवृत्ति:' इति न्यायात् । पक्षे 'अवर्णस्ये० ' | १ | २|६| इत्यर्, ल ऋषभः ऌ ऋषभः । लृशब्दाङ्कित ऋषभ इत्यर्थ । होतुः लकारः होतृ लकार: अत्र लेख्यलेखकभावसम्बन्धे उच्चार्योच्चारक भावसम्बन्धे वा 'शेषे' | २|२|८११ इति षष्ठी । बाल इत्यत्र जलतुम्बिकान्यायेन रेफस्य उर्ध्वं गमनम् । अत्र कग्रहणं 'सर्वं वाक्यं सावधारणम्' इति न्यायं सूचयति अन्यथा तु 'सिद्धि:. स्याद्वादाद्' इत्यनेनेव सिध्येत अत्रेदं विचार्यते ननु ऋलृति' | १|१|२| सूत्रस्य निष्पत्स्यमानत्वात् एतेन सूत्रेण एतत्सूत्रे कथं ह्रस्वः ? इति चेदत्रोच्यते-उदेष्यन्नपि मार्तण्डः किं तमो न नाशयति ? तथा अत्रापि उदेष्यत्यपि सूत्रे ह्रस्वः । यदि तु 'सुशिक्षितोऽपि नटः स्वस्कन्धं नारोहतीति न्यायाश्रयणे स्वस्मिन् स्वक्रियाया अभाव : अनिष्पन्नेन कार्यकरणे यदि अतिप्रसङ्गः तदा तु 'लोकान्'