________________
(२८)
..
पूर्वपद इति- समासावयभूते पदे पूर्व भागे पूर्वपदम् उत्तरभागे चोत्तरपदमिति प्रसिद्धिः । अर्धपञ्चमः क्रोतमपञ्चमकम्, अर्धपञ्चमः रूपैः क्रीतम् अर्धपञ्चमशूर्पम् । 'मूल्यः क ते' ।६।४।१५०। इतीकण 'अनाम्न्यहि:०' १६।१११४१॥ इति प्लुप् ॥४२॥
इति प्रथमः पादः
-
-
अथ द्वितीयः पादः
समानानां तेन दीपः । १।२।१। समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डानम्, दधीदम्, नदीन्द्रः ॥१॥
समानं तुल्यं मानं परिमाणं येषां ते समानांस्तेषाम् । तेन दीर्घः तच्छन्देन समानस्य परामर्शः तच्छब्दस्य बुद्धिस्थत्वोपलक्षितधर्मावच्छिन्ने शक्तिः । इवर्णचवर्गयशांस्तालव्या दधि शीतमित्यत्र न दीर्घः, शकारस्याऽऽस्यप्रयत्नभेदेन समानत्वाभावात्, परेण सहेति अत्र पुत्रेण सह स्थूल इतिवन्न द्वयोः पृथक पृथग्दीर्घता, किन्तु अजाक्षीरेण सहौषध पिबेदितिवद् द्वयोरेक एव दीर्घः । 'आसन्न: ।७।४।१२०। इति न्यायादवर्णस्याऽऽकार एव दीर्घः, न त्वीकारः,एवमिवर्णादेरपि ज्ञेयम् । समानानामित्यत्र बहुवचनं व्याप्त्यर्थं तेनोत्तरसूत्रेण ल ऋतोरपि ऋलति ह्रस्वो भवति । क्ल ऋषभः, होतृ लकार: । अन्यथा ऋ स्तयो:' ।१।२।। इति परत्वात् ऋ. इत्येव स्यात् । समानानामिति निर्देशात्' अपेक्षातोऽधिकार' इति न्यायो निश्चीयते । तथाहि 'ह्रस्वापश्च' ।२।४।३२॥ इति सूत्रेण आमो नाम् कृतः । स च तदेव सिध्येत् यदा 'आमोनाम्वा' ।१४।३१। इति पूर्वसूत्रात् 'आम: नाम् इति च पदे तत्रानुवर्तेताम् । दण्डस्याग्रम्- दधि दुग्धविकृतिविशेष: इदम्-प्रत्यक्षसन्निकृष्ट नर्देशकशब्द: दधीदमित्यसमस्तम् अथवा दध्न इदम् दधीदमिति षष्ठीतत्पुरुषसमासः। णद अव्यक्ते शब्दे नदति इति 'अच्' ।५।११४९। इत्यचि गौरादित्वात् डांच नदी, नधा इन्द्रः नदीन्द्रः ।
स्याद्वादादिति सर्वत्र स्याद्वादाश्रयणे प्रसक्तेऽपि क्वचिदेव तदाश्रयो