________________
(२७)
कम्, अध्यर्द्ध शूर्पम् ॥४१॥
__कश्च समासश्च कसमासम् तस्मिन् । अल्पस्वरत्वात् 'क' इत्यस्य प्राग्निपात: । समसनं पदयो: पदानां वैकीकरणं समासः । यद्यपि 'इवर्णादे: ।१।२।२१। इतिवदत्रापि प्रथमं निमित्ती पश्चान्निमित्तमितिः रचनाक्रम: तथा सति 'अध्यद्ध : कसमासे' इति सूत्रं कर्तव्यम् तथापि मात्रालाघवमपि पुत्रोत्सवाय मन्यन्ते वैयाकरणाः' इति न्यायात् 'कसमासेऽध्यर्द्ध:' इति कृतम् । यद्वा निमित्तिपदं पूर्वमेव प्रयुज्यते इति भ्रमात्मक संस्कारस्य समूलोच्छेदनाय । अयं प्रयागः प्रचुरप्रयोगे निमित्तिपदं पूर्वमेव प्रयुज्यते तथापि व्युत्त्रमेण प्रयोगेऽसाधुत्वं. न भवतीति ज्ञापनार्थम् । अधिकमधू यस्यासौ अध्यर्धः 'एकाधं चानेकंच०' ।३।१।२२। इति बहुव्रीहिः । अध्यद्धन क्रीतम् अध्यर्द्ध कम्, यस्मिन्नर्धमधिक मेतादृशमेकमित्यर्थः । 'संख्याडतेश्चा०' ।६।४।१३०। सूत्रात्कः । यस्मिन्नधं शूर्पमधिकमर्थात् अर्धा धकशूर्पम् अध्यर्धेण शूर्पण धान्यादिनिष्वपनभाण्डेन क्रीतमध्यर्धशूर्पम् । 'मूल्यैः क्रीते' ।६।४।१५०। इतीकण् 'अनाम्यन्यद्विः' ।६।४।१४१॥ इति तस्य लोप: । अत्र 'सख्या समाहारे च०' ।३१।१९। इति द्विगु: । ननु यथा एको द्वौ त्रयश्च इत्यादि.गण्यते तथैव एकोऽध्य? द्वौ अधंत्रय: इत्याद्यपि इति अतिदेशानपेक्षमेव कप्रत्ययादिकार्य द्विकमित्यादाविव अय॑धकमित्यादावपि सेत्स्यतीति किमनेन सूत्रगेति चेन्मैवम् धाकृत्वसादि प्रत्ययानुत्पत्यर्थं कसमासे इति नियम
आवश्यकः । तथा सति नियमसूत्रमिदं विध्यर्थत्वं त्वस्य दुरुपपादमिति चेन्मैव • अर्धशब्दो भागद्वयेन विभज्यमानस्य वस्तुनो द्वितीयं सममंशं वाच्यत्वेन निवेदयति स चांशोऽवयवभूत इत्येक देशादिशब्दवद् अर्धशब्दोऽप्यवयववाच्येवेति नास्य सूत्रस्य नियमार्थता ।।४।।
अर्धपूर्वपदः पूरणः । १।१।४२ । अर्द्ध पूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समामे च कार्य संख्यावत् स्यात् । अर्द्ध पञ्चमकम्, अर्द्ध पञ्चमशूर्पम् ॥ ४२ ॥
अर्धशब्द: पूर्वपदं यस्य स । पूग्यतीति पूरण: 'नन्द्यादिभ्योऽनः' ।५।११५२। इति न: । पूर्यतेऽनेन वेति पूरणः, तदर्थप्रत्ययोऽपि पूरणः । अध्यर्ध