________________
(२६)
'संख्याडतेश्चा०'।६।४।१३०। सूत्रे सङ्खयाग्रहणपार्थक्येन डसिग्रहणादेव कतिक इत्यत्र कप्रत्ययः सेत्स्यतीति चेद् अत्रोच्यतेऽत्र डतिग्रहणं संख्या ग्रहणेन ग्रहणाहस्यापि कतिशब्दस्य त्वन्तत्वेन 'अशत्तिष्टे.' इति प्रतिषेधः स्यादिति तदुपजीवनाय डते:पृथग्ग्रहणम् । न चाशत्तिष्ठेः कः इत्यत्रार्थवत एव तेहणेन डतिघटकस्य तेरनर्थकतया 'अर्थवद्गहणे नानर्थकस्य' इति न्यायात् डतिप्रत्ययान्तस्य न निषेध इति वाच्यम्- 'अर्थवद्ग्रहणे०' इति न्यायस्यां नित्यताज्ञापनार्थत्वात् । अनित्यताज्ञापनस्य फलं तु एकसप्ततीत्यादावपि त्यन्तत्वेन कप्रत्ययस्य प्रतिषेधसाधनम् । नित्यत्वे त्वर्थवान् तिशब्द एव गृह्येत स च प्रत्यय एवेति प्रत्ययत्वेन 'प्रत्यय: प्रकृत्यादेः' १७।४।११५। इति तदन्तविधावूनाधिक ग्रहणाभावेन 'सप्तति' इत्यादा वेव कप्रत्ययनिषेध: 'एकसप्तति' इत्यादौ तु न स्यात् । अनित्यत्वे तु 'ति' इत्यस्य प्रत्ययभिन्नस्यापि ग्रहण-: सम्भवे नैषाऽऽपत्ति: । का सङ्ख्या मानमेषां 'यत्तत्किमः सख्याया ऽतिर्वा' ७।१।१५०। सूत्रात् डति: कतिभिः क्रीत: कतिक: 'सङ्गयाऽतेश्चा०'१६।४।१३०॥ इति कः । सङ्घयावत्त्वात् 'संख्याया धा1७२।१०४।धा-प्रत्ययाद्यपि । या संख्या मानमेषां यत्परिमाण मेषां वा ते यावन्त: 'यत्तदेतदो डावादिः' ।४।१।१४९॥ सूत्रात् यावन्त: यावद्भिः क्रीत: यावत्क: सङ्ख्यावत्त्वात्क: ।
'बहुगणं भेदे' । १।१।४० । बहुगणशब्दो भेदवृत्ती सङ्घयावत् स्याताम् । बहुकः, गणकः । भेद इति किम् ? वैपुल्ये सङ्घ च मा भूत् ॥ ४० ॥
बहुश्च गणश्च बहुगणं । भेदो नानात्वमेकत्वप्रतियोगी । बहुभि: क्रीत: बहुकः । गणैः क्रीतो गणक: ‘संख्याडतेश्चा० ।६।४।१३०। इति कः । बहुगणौ न नियतविषयपरिच्छेदाभिधायकाविति संख्याप्रसिद्ध रभावाद्वचनम् । यत्र बहुशब्दो वैपुल्ये महति वर्तते गणश्च सङ्घ समूहे तत्र संख्यावन्न भवति यथा रजोगणः रजसघात इत्यर्थः ॥४०॥
कसमासेयदः ।१।१।४१। अध्यद्ध शब्दः के प्रत्यये समासे च विधेये संख्यावत्स्यात् । अध्यक्षु