________________
(२५)
इत्यतु संख्यावत् ।१।१।३९ । डत्यन्तमस्वन्तं च संख्याकार्यभाक् स्यात् । कतिकः, यावत्कः ॥ ३९ ॥
इतिश्च अतुश्च उत्यतु समाहारद्वन्द्वः अथवा इति अतु ध्यस्तमेव सौत्रत्वाद् विभक्तेर्लोपः । डतो डकारोऽनुबन्धः औणादिकातिप्रत्ययमादायातिप्रसङ्गनिरासार्थः 'अतु' इत्यत्रोकारानुबन्धविरहे 'पञ्चद्दशद्वर्गे वा' १६।४।१७५। इत्यत्प्रत्ययस्य ग्रहणं स्यात् । शत्रादीनां ग्रहणं तु साहचर्यादेव निरस्तम् । अथवा उकारानुबन्धाभावे तकारस्योच्चारणार्थत्वे 'अप्रत्ययान्तं . नाम सङ्ख्यावद्भवतीत्यर्थः स्यादत. उकारोऽनुबन्धः पठितः । सङ्खयेव सङ्खयावत् 'स्यादिरिवे' ७।११५२। सूत्रात् धत् । संपूर्वात् ख्याते: 'उपसर्गादातः' ।५।३।११०॥ इति 'बत्तस्याम्' १११११३४। इत्यव्ययसंज्ञा 'अव्ययस्य' ।३।२।७। इति विभक्तिलोपः । एकद्वयादिका लोकप्रसिद्धा सङ्ख्या, तत्कार्य भजते इत्यर्थः । डत्यत्वोः केवलयोः सङ्ख्यावद्विधाने फलाभावात् 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तीति परिभाषामुपेक्ष्य तदन्तविधेरङ्गीकारेणाह डत्यन्तमत्वन्तमिति । संख्यावाचकाः शब्दा: अन्यूनानतिरिक्तपरिमाणबोधकाः भवन्ति यथा शतशब्दात् न कश्चिदेकाधिकशतम् एकोनशतं वा बोधति एवमेवैकादिशब्दादपि अन्यूनानतिरिक्तपरिमाणावच्छिन्नं परिमाणं बुध्यते कसमासेऽध्यधः।१।२४१॥ इत्यत्राध्यर्धशब्दो न नियतपरिमाणावच्छिन्नबोधक: अतो न सङ्घयावाची। तथा डत्यन्तादयः शब्दा: अनियतपरिमाणावच्छिन्नबोधकत्वेन न संख्यावाचिनः तेषां संख्याकार्यलाभाय 'डत्यतु संख्यावत्'
इत्येवमादीनी सूत्राणि । एकद्वित्रीत्यादयो दशान्ताः शब्दाः परिमाणावच्छिन्न. वाचका एव एकोनविशंत्यादयः शब्दास्तु परिमाणावच्छिन्नवाचका: परिमाणवाचकाश्च यथा- एकोनविंशतिर्जना, जनानामेकोनविंशतिरति । ननु संज्ञाप्रकरणत्वात् 'डत्यतु संख्या' इत्याकारकसंज्ञासूत्रमेवास्तु किं वदित्यनेनेतिचन्मैवं सहयेत्यनेन 'कृत्रिमाकृत्रिमयोः कृत्रिमे' इति न्यायात् डत्यन्तात्वन्तानामेव ग्रहणापत्तिः तस्मात् एकादिकाया लोकप्रसिद्धायाः संख्यायास्तु अकृ. त्रिमत्वाद् ग्रहणं न स्यादित्यापत्तिभयः । न च 'परार्थे प्रयुज्यमानः शब्दो वतं विनाऽपि वदर्थं गमयति' इति न्यायात् 'डत्यतु संख्या' इत्याकारकमेवातिदेशसूत्रं कर्तव्यमिति वाच्यम् अत्र वत्करणस्य स्पष्टप्रतिपत्त्यर्थत्वात् । अन्यत्र प्रसिद्धस्यार्थस्यान्यत्र कथनमति देश: । ननु इतिप्रत्ययान्तेऽतिदेश विनाऽपि