________________
(२४)
ईकारानुस्वारौ इतौ 'ईकारः; ईगितः ।३।३।९५॥ सूत्रात्फलवत्यात्मनेपदार्थः । अनुस्वार: ‘एकस्वरा०' ।४।४।५६। इत्यनिटत्वार्थः । चित्रङ आश्चर्य चित्रमाश्चयं करोति 'नमो वरि०' ।३।४।२७। क्यनि ई: ङित्त्वादात्मनेपदम्। .
वर्णो वर्णसमूहो वा, पाठे समुपलभ्यते । न दृश्यते प्रयोगे यः, स इत्संज्ञक उस्यते ॥३७।।
अनन्तः पञ्चम्या प्रत्ययः । १।११३८ । पञ्चम्यर्थाद् विहितोऽन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् । "नाम्नः प्रथमैकाद्विबहौ" । वृक्षः । अनन्त इति किम् ? आगमः प्रत्ययो मा भूत ॥ ३८॥
न विद्यते अन्त:- अन्तशब्दो वाचकोऽभिधायको यस्य स अनन्तः । "अन् ।३।२।१२९। सूत्रादनादेशः । पञ्चम्याः , 'स्त्रीदतः ।।४।२९। सूत्रात् दासादेश: प्रति इंणक गतौ प्रतीयतेऽर्थों येनासो प्रत्ययः । सूत्रे पञ्चमीति प्रत्ययोऽभिधीयते, स च प्रत्ययः न प्रकृतिमन्तरेणेति येन विना यन्न भवति तत्तेनाऽऽक्षिप्यते । तथा चार्थाविनाभाविदत्वादर्थ आक्षिप्यते इति-प्रकृते राक्षेपादाह पञ्चम्यर्थादिति पञ्चम्यन्ता.. द्विहित इत्यर्थः । 'नाम्नः प्रथमैक दिव०।२।२।३। सूत्रात नाम्नः परा सिऔजस लक्षणा प्रथमा विधीयते इति नामशब्दात्पञ्चमी, पञ्चम्यन्तात्प्रथमा विहिता अन्तशब्दाऽनिर्दिष्टश्च अत प्रथमाया: प्रत्ययत्वम्। आगमः प्रत्ययो मा भूदितआगमस्य प्रत्ययत्वे हि अनन्दत् इत्यादौ 'उदितः० ।४।४।९८॥ इत्यादिना नागमेन धातो: खण्डितत्वात् नन्दधातो: प्राक 'अधातो०।४।४।२९। सूत्रादडागमो न स्यात् । अरुणद् इत्यत्र 'रुधां स्वराच्छनो नलुक् च' ।३।४१८२। सूत्रात् श्नप्रत्ययवत् 'तन्मध्यपतितस्तद्गहणेन गृह्यते इति न्यायाद् नागमविशिष्टस्यापि धातुत्वमक्षतमिति चेत् उच्यते तथा सति इदमेवान्तग्रहणं एतन्न्यायस्यानित्यत्वं ज्ञापयति अत एव यका सका इत्यादी' 'इच्चापुसोऽनित्क्याप्परे' ।।४।१०७। इति सूत्रेण इकारप्राप्त्या 'अस्यायत०' ।।४।१११॥ इत्यनेन इत्वप्रतिषेधः सार्थक: अन्यथा ककारस्य प्रकृत्यवयवत्वे-तु इत्वप्राप्ति.. रेव न स्यात् । मा भूदित्यत्र 'माङ यद्यतनी ।५।४।३९१ इत्यद्यतनी ।