________________
(२३)
: पर्यन्तमित्यर्थः । अदात् बुदांग्क् अद्यतनीदि 'सिजद्यतन्याम्' | ३ | ४|५३ | सूत्रांत् सिच् । पि तिदा० | ४ | ३ |६६ | सूत्रात् सिचो लुप् । 'अड्धातोरादि० | ४|४|१९| सूत्रादडागमः ॥ ३ ॥
गतिः । १।१ । ३६ । 19 19
गतिसंज्ञमव्ययं स्यात् । अदः कृत्य । “अतः कृकमि" । इत्यादिना
रः सो न स्यात् ॥ ३६ ॥
गम् गतौ गमनं गतिः, 'स्त्रियां क्तिः ' | ५|३|११| 'यमिरमिनमि० ' | ४ २ ५५ ॥ इति मूलोप: । अदः करणं पूर्वम् अदः कृत्यं एतत्कृत्वेत्यर्थः, अत्र क्षदः इत्यस्य ‘अग्रहा०' |३|१|५| सूत्रेण गतिसंज्ञा । अदस्कृत्य न भवति अनेन सूत्रेणाव्ययसंज्ञा । अव्ययस्य रस्य सो निषिध्यते । 'अननः क्त्वों यप् ।३।२।१५४) 'ह्रस्वस्य तः । ४|४|११३ । इति तागमः 'अतः कृकमिकंस ० ' | २|३|५| इति सकाराभाव: । 'ऊर्जा | ३ | १|२| सूत्रात् जीविकौ० | ३ | १|१७| सूत्रं यावदुगतिसञ्ज्ञा ।। ३६ ।।
अप्रयोगीत् । १।१।३७ ।
इह शास्त्रे उपदिश्यमानो वर्णस्तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते, चित्रीयते ॥ २७ ॥
युज पी योगे प्रयोजनं प्रयोग: 'भावाकर्घञ् ||३ | १८| इति घन् । प्रयोगोऽर्थात् शब्दस्योच्चारणम् । प्रयोगोऽस्यास्तीति प्रयोगी । 'अतोऽनेकस्वरात्' | ७|२६| इनीन् । न प्रयोगी अप्रयोगीति संज्ञी । इण्क् गतौ एनि गच्छतीति इत् क्विप् | ५|१| १४८ । इति विवप् इदिति संज्ञा । अप्रयोगीत्वानुवादेनेत्सञ्ज्ञा विधानाच्चास्य प्रयोगाभावः सिद्धः । वर्णस्तत्समुदायो वेति'कस्मैचित् कायार्थमुच्चार्यमाणं एकवर्णो वा द्वित्र्यादिवर्णसमुदायो वा प्रयोगकालेऽदृश्यमान इत्संज्ञो भवतीत्यर्थः । एधि वृद्धौ इत्यत्र इकारः एक इत् । 'इङित कर्तरि |३|३|२२| इत्यात्मनेपदार्थः । यजी देवपूजासङ्गतिकरणदानेषु