________________
(२२)
वत्तस्याम् ।१।१।३४ । वत्-तसि-आम्प्रत्ययान्तमव्ययं स्यात् । मुनिवद् वृत्तम्, उरस्तः, उच्चस्तराम् ॥ ३४॥
वच्च तसिश्च आम च वत्तस्याऽम 'अनतो' ।४५९॥ इति लोप: मन्यते संसारासारतामिति मुनि: । मुनेरहं मुनिवद्, 'तस्या' ७।१५१॥ . वत् । उरसा एकदिक उरस्त: 'यश्चोरस०' ।६।३।२१२। तस् । इदमनयोर्मध्येऽतिशयेनोच्चरित्यच्चस्तराम् 'द्वयोविभज्ये०' ।७।३।६। तरप् 'किन्दयाद्य'।७।३।८। इति आम् । वत्तसिसाहचर्यात् 'साहचर्यात्सहशस्यैव ग्रहणम्' इति न्यायात् वत्तसी अविभक्ती त्वंअविभक्तेरेवामो ग्रहणं, तेन 'कित्याद्य० ।।३।८। विहितस्य 'धातोरनेक० ।३।४।४६॥ तत्र क्वसु०' ।।२।२। इति क्वसुकानस्थाननिष्दन्नस्य चामो ग्रहणं न तु षष्ठीबहुवचनस्य । क्वसुकानस्थाननिष्पन्नस्यामो ग्रहणादेव पाचयांचऋषेत्यत्र टालोपे पदत्वाद. नुस्वारसिद्धिः, उच्चस्तरामित्यत्राव्ययत्वात् स्यालुप पाचयांचऋषेत्यादावामन्तस्याव्ययत्वेऽपि 'अव्ययस्य को द् च' ।७।३।३१। इति अक् तु न भवति अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सिताद्यर्थासम्भवात् ॥३४॥
क्त्वातुमम् । १।१।३५। . कत्वातुम्-अम् प्रत्ययान्तमव्ययं स्यात् । कृत्वा, कर्तुम् यावज्जीव. मदात् ॥ ३५॥ ....... क्त्वा च तुम् च अम् च क्त्वातुमम् 'अनतो०' ।१।४१५९॥ इति लोप: अमिति 'निरनुबन्धग्रहणे सामान्येन' इति न्यायात् णमणमोरुत्सष्टानुबन्धयो: ग्रहणम् ह्यम्तन्यद्य नीद्वितीयैकवचनानाम 'साहचर्यात्सदृशस्यव ग्रहणम् इति न्यायेन व्यावृत्तः । द्वितीयैकवचनस्याप्यव्ययत्वे तु अव्ययस्य को द्च' ७।३।३१॥ इत्यक् स्यात्एवं देवस्य दर्शनं कुर्वित्यत्र 'तृन्नुदन्ताव्यया० ।२।२।९०। इति षष्ठी प्रतिषिध्येत । डुकुग करणे, करणं पूर्वं कृत्वा 'प्राक्काले' ।५।४।४७। इति क्त्वा । करणायेति कर्तुं क्रियायां क्रियार्थायां० ।५।३।१३' इति तुम् । जीव प्राणधारणे 'यावतो विन्दजीव०' ।।४।५५॥ इति णमि यावज्जीवम् जीवनः