________________
.. (२१)
७।२।१५०। इति शस् । द्वौ प्रकारौ एषां तानि द्वधानि तद्वति०' ७।२।१०८ इति घण् पथां द्वैधानि पथिद्वैधानि । अत्र नाव्ययसंज्ञा । ३२॥
विभक्तिथमन्ततसा-द्याभाः ।१।१।३३ ।
विभक्त यन्ताभाः थमवसान-तसादि प्रत्ययान्ताभाश्चाव्ययानि स्युः। अहंयुः, अस्तिक्षीरा गौः, कथम्, कृतः ॥ ३३॥
थम अन्ते येषां ते थमन्ताः। तस आदिर्येषां ते तसादयः थमन्ताश्च ते तसादयश्च विभक्तयश्च थमन्ततसादयश्च विभक्तिथमन्ततसादयः, तेषामामा सादृश्यं येषां ते । उष्ट्रमुखादित्वाद् बहुव्रीहिः । विभक्त्यागमनस्यानु नाम्नो धातोर्वा यद्र पं तद्र पतुल्यं यदन्यद्र पं तद् विभक्तयन्ताभम् तच्चाव्ययम् एवं तसादिथमन्तप्रत्ययेभ्यो यद् पं निष्पद्यते तद् पतुल्यं यद् पं तदपि अव्ययम् । विभक्तयो द्वधा स्यादय: त्यादयश्च । अह स्वतन्त्रं पदम् अहं विद्यतेऽस्येति 'ऊर्णाहं०' १७२।१७। सूत्रात् युस् । अहमस्मच्छब्दस्य प्रथमाविभक्तयन्ततुल्यरुपमिति अव्ययम् अहंयू-शब्दोऽव्ययं नास्ति । विभक्तिप्रतिरुपकस्याव्ययत्वे न किमपि प्रयोजनमिति नाशङ्कनीयम् विभक्त्यन्तरानुस्पत्तौ ‘ऐकायें' ।३।२।८। सूत्राद् विभक्तेलु पि अहं पुत्रोऽस्या 'त्वमौ०' - १२।१।११। सूत्रात् मत्पुत्र इत्यादि वैरुप्यमापद्यत। .
अस्ति विद्यमानं क्षीरं यस्याः सा अस्तिक्षीरा दुग्धवती गौरित्यर्थः त्यादिविभक्त्यन्ताभस्योदाहरणमिदम् । अत्रास्तिशब्दस्याव्ययत्वात् एकार्थ.' ।३।१।२२। सूत्रात्समासः । नामत्वाभावे अस्तेः क्षीरेण सह समासो न स्यात् । कथम्-केन प्रकारेणेत्यर्थः 'कथमित्थम्'।७।२।१०३।कुतः कस्मादित्यर्थः 'किमद्वयादि० ।७।२।८९। अहं, शुभम् , कृतम्, पर्याप्तम् , येन, तेन, चिरेण, अन्तरेण, ते, मे, चिराय, अह नाय, चिरात्, अकस्मात्, चिरस्य, अन्योन्यस्य, मम, एकपदे, अग्रे, प्रगे, प्राह वे, हेतो, रात्रौ, वेलायाम, मात्रायाम एते प्रथमादि-विभक्त्यन्तप्रतिरुपका: । अस्ति, नास्ति, असि, अस्मि, विद्यते, भवति, एहि, ब्रूहि, मन्ये, शङ्क, अस्तु, भवतु, पूर्यते, स्यात्, आस, आह, वर्तते, नवर्तते, याति, नयाति, पश्य, पश्यत, आदह, आदङ्क, आतङ्कः इति तिवादि-विभवत्यन्तप्रतिरुपका: ॥३३॥