SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ (२०) सदृशं त्रिषु लिङ्गषु, सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम् ॥ स्वरिति- स्वर्गे परलोके च । अन्तरिति-मध्ये । प्रातरिति प्रभाते। बहुवचनमाकृतिगणार्थम्-एवं प्रकाराः स्वरादयो नत्वेतावन्त इति ॥३०!! चादयोs सत्वे । १।१।३१। । अद्रव्ये वर्तमानाश्चादयोऽव्ययानि स्युः । वृक्षश्चेत्यादि ॥ ३१॥ __ चादिर्येषां ते 'जस्येदोत' ।।४।२२। 'सो रुः ।२।१।७२। अतोऽति रोरु: ।।३।२०। 'अवर्णस्ये' ।।२।६। 'एदोत:०' ११।२।२७। सीदतोऽस्मिन् लिङ्गसङ्खये इति सत्त्वम्, लिङ्गसंख्याद्याश्रयो द्रव्यं सत्त्वम्, इदं-तदित्यादिसर्वनामव्यपदेशभागिति यावत् असत्त्वे कोऽर्थः यत्र सत्त्वरुपेऽनुकार्यादावर्थे एषां प्रवृत्तिस्तदा चादीनामव्ययसंज्ञा न भवति तथा च: समुच्चये । 'वृक्षस+ च' 'चटते सद्वितोये' ।१।३।७। बहुवचनमाकृतिगणार्थम् ॥३१॥ अधण्तस्वाद्याः शसः । १।१।३२।, धग्वस्तिस्वादयः शस्पर्यन्ता ये प्रत्ययास्तदन्तं नामाव्ययं स्यात् देवा अर्जुनतोऽभवन्, ततः, तत्र, बहुशः । अधणिति किम् ? पथिद्वधानि ॥ ३२ ॥ न धण अधण्, 'नत्रत्' ।३।२।१२५। तसुरादिर्येषां ते तस्वादय: अधण च तत् तस्वादि च अधण्तस्वादि, शस् आऽभिविधि येषां ते आशसः । पञ्चमी । अर्जुनतः अर्जुनस्य पक्षे इत्यर्थः 'व्याश्रये तसः' ।७।२।८१॥ इति तसुः । अव्ययम् । भू सत्तायाम् , शस्तनी अन् 'अधातो:०' ।४।४।२८। इत्यडागम: कर्तरि शव, 'नामिनो गुणोऽ०' ।४।३१। इति गृण: 'ओदौतोऽवाव' ।१।२।२४। इत्यभवन् । तनूयी विस्तारे तनोति परोक्षप्रतीतिमिति तद, तस्मादिति ततः 'किमद्वयादिसर्वाप्र०' ७२१८९। तस्प्रत्ययः । तस्मिन् तत्र 'सप्तम्याः' ।७।२।९४। इति त्रप् । बहुभिः क्रीतौ बहुश: 'बह; वल्पार्थाः'
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy