________________
( ७ )
मन्नन्ताद्बहुव्रीहेश्चान्नन्तात् स्त्रियामाप्वा स्यात् । सच डित् । 'सीमे । सुपर्वे । पक्ष । सीमानौ । सुपर्वाणौ ॥ १५॥
'डाप्' इत्यकरणमुत्तरत 'आप' इत्यस्यैवानुवृत्त्यर्थम् । सीमानौ सुपर्वाणौ इति पक्ष पूर्वाभ्यां प्रतिषेधाद् ङीनं भवति उपान्त्यलोपवति बहुव्रीहौ तु ङी - रपि भवतीति त्रैरुप्यम् - बहुराजे बहुराजानो बहुराग्यो 'वा बहुव्रीहेः' | २४|५| इति वचनात् वन्नन्तस्यापि त्रैरुप्यम् बहुधीवे, बहुधीवानी, agatar | डित्करणमन्त्यस्वरादिलोपार्थम् ||१५|
अजादेः | २|४|१६|
अजादेस्तस्यैव स्त्रियामाप् स्यात् । अजा । बाला । ज्येष्ठा । क्रञ्चा ॥ १६ ॥
अजादेरिति - अत्र पञ्चमी अजादेः स्त्रियामाप् स्यादित्यर्थः । तस्यैवेति आवृत्त्या व्याख्यानात् षष्ठीसम्बन्ध अजादिसम्बन्धिन्यामेव स्त्रियामभिधेयायामाप् स्यादित्येवमर्थस्तेन पञ्चानामजानां समाहारः पञ्चाजी, दशाजी इत्यत्र समाहारः समासार्थः स्त्री नासावजशब्दसम्बन्धिनी- त्याप् न भवति किन्तु 'द्विगोः समाहारात्' | २|४|२२| इति समाहारलक्षणः ङी- र्भवति । अत एव च ज्ञापकादत्र स्त्रीप्रकरणे तदन्तादपि विधिर्भवति तेन महांश्चासावजश्च महाजा परमाजेति सिद्धम् एव मंतिमहती, वहुधीवरीत्यादि । अजेति - 'आत्' | २|४|१८ । इत्यापि सिद्धेऽपि जाते रयान्त०' | २|४|५४ | इति बाधनार्थोऽजादिपाठः । बालेति - 'वयस्यनन्त्ये' | २|४| २१ | इति वयोलक्षणस्य ङी-प्रत्ययस्यापवादः आप् । ज्येष्ठेति — 'धवाद्योगाद० ' | २|४|५६| इति धवयोगलक्षणस्य ङी - प्रत्ययस्यापवादः आप् । कुचेति - व्यञ्जनातत्वात् 'आत्' | २|४|१८ । इत्यप्राप्ते ऽजादिपाठः । कश्चिदस्मादिवकल्पेनेच्छति तन्मतें क्रुङ् । अन्ये तु क्रुञ्चानालभेतेति प्रयोगदर्शनादकारान्त एवेति मन्यन्ते ।
ऋवि पाद: पात्पदे | २|४|१७|