________________
( ६ )
नोपान्त्यवतः | २|४|१३|
यस्योपान्त्यल - गुनास्ति तस्मादन्नन्ताद्बहुव्रीहेः स्त्रियां ङोर्न स्यात् । सुपर्वा । सुशर्मा । उपान्त्यवतइति किम् । बहुराशी
॥१३॥
अन्तस्य समीपमुपान्त्यम् । उपान्त्यलुग्नास्तीति 'न वमन्तसंयोगात्' | २|१| । १११ । इति निषेवेनेत्यर्थः । अन्यथा अनोनुपान्त्यवतो वा इति एकयोगः क्रियेत योगविभागकरणान्नायं 'अनो वा' | २|४|११ ॥ इति सूत्रविहितस्यैव प्रतिषेधः किन्तु 'स्त्रियां नृतो०' | २|४|१ | इत्यस्यापि । पिपर्तेः पृणातेर्वा वनि शृणोतेश्च मनि शोभनं पर्व शर्म यस्या सा सुपर्वा सुशर्मा । बहुव्रीहेरित्युक्तत्वाद् पर्वाणमतिक्रान्तेत्यतिपर्वणीत्यत्र 'स्त्रियां नृतो० ' | २|४| १ | इति सूत्रेण डीः भवति किनवव्युत्पत्तिपक्षाश्रयणाद् 'णस्वरा०' | २|४|४| इति ङी रश्च न भवति
||१३||
मनः । २।४।१४।
मन्नन्तात् स्त्रियां ङीर्न स्यात् । सीमानौ ॥ १४ ॥
'न मन्नुपान्त्यवयाम्' इत्येकयोगा करणाद्बहुव्रीहेरिति निवृत्तम् । मन्नन्ते बहुव्रीहौ त अन्नन्तद्वारा ङी-भवत्येव । यथा महत्त्वयोगाय महामहिम्नामाराधनीं तां नृप ! देवतानाम् । दातुं प्रदानोचित ! भूरिधाम्नीमुपागतः सिद्धिमिवास्मि विद्याम् । (किराता सर्ग ३ श्लोक २३) महतोभावः 'पृथ्वादेरिमन्वा' |9||5| इतीमनि अनोऽ- नर्थकत्वेपि 'अनिनस्मिन् ग्रहणान्य० ' इति न्यायात् महिमानमतिक्रान्ता - अतिमहिमेत्यादौ ङी - प्रतिषेधो भवति अतिक्रान्तो महिमा ययेति बहुव्रीहौ तु 'अनो वा' | २|४|११ । इत्यस्य ‘मनः’।२।४।१४। इत्यस्य च द्वयोरन्यत्र सावकाशत्वात् परत्वात् प्राप्तमपि निषेधं बाधित्वा विशेषविहितत्वात् 'अनो वा' | २|४|११ | इति विकल्प एव ।। १४ ।।
वाभ्यां वा डित् ।।४।१५।