SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ निहायणीत्यादि-'चतुस्त्रीयनस्य वयसि' ।२।३।७४। इति णत्वम् । - चतुर्हायना शालेति–'कालकृता प्राणिनां शरीरावस्था वयः' इति वयसः प्राणिधर्मत्वात् शालायामभावात् डी-र्णत्वं च न भवति ॥६॥ दाम्नः ।२।४।१०। संख्यादेमन्नन्ताबहुव्रीहेः स्त्रियां ङीः स्यात् । द्विदाम्नी । संख्यादेरित्येव । उद्दामानं पश्य ॥१०॥ द्वे' दामनी यस्यां सा द्विदाम्नी । उद्गतं दामास्या सा उद्दामा ताम् । अत्र त्रैरूप्यम्-उद्दामानम्, उद्दामाम्, उद्दाम्नी वडवां पश्य । 'अनो वा' ।२।३।११। इति विकल्पस्यापवादोऽयं योगः ।।१०।। अनो वा ।२।४।११। अन्नन्ताबहुव्रीहेः स्त्रियां ङोर्वा स्यात् । बहुराग्यौ । बहुराजे । बहुराजानौ ॥११॥ "ताभ्यां वाप् डित्' ।२।३।१५ इति डापि बहुराजे । उत्तरोपान्त्यवतः प्रतिषेधादुपान्त्यलोपिन एवायं विधिः ॥११॥ • 'नाम्नि ।२।४।१२। अन्नन्ताबहुव्रीहः स्त्रियां संज्ञायां नित्यं की स्यात् । अधिराज्ञी, सुराज्ञी नाम ग्रामः ॥१२॥ अधिको राजा यस्याः, शोभनो राजा यस्या सा अधिराज्ञी, सुराज्ञी । अयमयुपान्त्यलोपवत एवायं विधिः, नित्यार्थं वचनम्, तेन पक्ष डाप् विकल्पेन न भवति ।।१२।।
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy