SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पादमाचष्टे । क्विपि पाद् । त्रयः पादोऽस्याः सा त्रिपात् ॥६॥ द्विपदीति-द्वी पादाबस्या इति 'सुसंख्यात्' ।७।३।१५०। इति सूत्रण पादस्य पादादेशः अनेन वा डीः 'यस्वरे पाद:०' ।२।१।१०२। इति पदादेशः यभावपक्षे द्विपातु ॥६॥ अन्नः ॥२॥४७॥ अधन्नताबहुव्रीहेः स्त्रियां डीः स्यात् । कुण्डोध्नी ॥७॥ नाम्नो विशेषणत्वात्तदन्तविधिः । ऊधन्निति कृतनकारादेशस्योधसो ग्रहणम् कुण्डवदूधसो यस्याः सा कुण्डोघ्नी। 'स्त्रियामधसो न्' ।७।३।१६९। इति इति सस्य न 'ईङौ' ।२।१।१०९। इत्यनोऽकारलोपः । 'अनो वा' ।२।४।११।। इति विकल्पे प्राप्ते वचनम् ॥७॥ मा . अशिशोः ।।४८ अशिशुइति बहुव्रीहेः स्त्रियां डीः स्यात् । अशिश्वी॥८॥ अविद्यमानः शिशुर्यस्या सा अशिश्वी। नचोधन्शब्दस्याशिशुशब्दस्य च बहुव्रीहिविषयत्वात्पूर्वेण सहैकयोग एव क्रियतां किं पृथग्योगेनेति वाच्यं द्वयोरपि वहुव्रीहिविषयत्वेऽप्यूध्नः तदन्तस्य विधिः, अशिशोस्तु स्वरुपस्येति योगविभागस्यावश्यककत्वात् । ।।८।। संख्यादेहायनाद्वयसि ।२।४ा। संख्यादेायनान्ताबहुव्रीहेः स्त्रियां डीः स्यात् । वयसि गम्ये बिहायणी ।। चतुर्हायणी वडवा । वयसीति किम् । चतुर्हायना शाला ॥६॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy