________________
( ३ )
| ४ | ३ | १७ | इतीत्वेऽनेन ङयां रेफे च धीवरी । मेरुं दृष्टवतीति 'दृशः क्वनिप्' ।५।१।१६६ । इति क्वनिपियां रेफे च मेरुदृश्वरी । सहयुध्वेति- सह योधितवतीति 'सहराजभ्यां०' | ५|१|१६७ | इति क्वनिप् । अघोषान्ताद्विहितत्वादस्याप्रवृत्तिः । शवं रीति-शृणातीति शर्वरी स्वरान्ताद्विहितत्वाद्गुणे कृते घोषवतोऽपि भवति । नान्तत्वात् 'स्त्रियां नृतो.' | २|४|१| इति ङीः सिद्ध एव णस्वराघोषादेव वनो ङी-र्भवतीति नियमार्थं रविधानार्थं च वचनम् । तेन सहयुध्वेत्यादौ 'स्त्रियां नृतो०' | २|४|१| इत्यनेनापि न भवति । विपरीत नियमस्तु 'स्त्रियां नृतो०' | २|४|१| इत्यस्यारम्भान्न भवति । अन्यथा राज्ञीत्यादौ स्वरात्परस्य नकारस्यावस्थानाद 'स्त्रियां नृत०' | २|४|१| इति ङीर्न स्यात् । ननु वनिति प्रत्ययग्रहणं कृद्ग्रहणं वा तत्र प्रत्ययग्रहणे ' प्रत्ययः प्रकृत्यादेः ० | ७|४|११५ । इति, कृदुग्रहणे 'कृत्सगति० |७|४|११७ | इति बहुधीवरीत्यादि न सिध्यतीति चेत्सत्यं ''अजादे' | २|४| १६ | इत्यत्रावृत्तिव्याख्यानस्य अत्र स्त्रीप्रकरणे तदन्तविधिज्ञापकत्वादन्तस्यापि विधिरिति बहुधीवरीत्यादि सिध्यतीत्यदोषः || ४ ||
वा बहुव्रीहेः ||३||
स्वराघोषाद्विहितो यो वन्तदन्तात् बहुव्रीहेः स्त्रियां ङीर्वास्यात् । रश्चान्तस्य । प्रियावावरी । प्रियावावा । बहुधीवरी । बहुधीवा । बहुमेरुदृश्वरी । बहुमेरुदृश्वा || ५ ||
प्रियावावरीति- प्रियोऽवावा यस्याः साः । बहुधीवरीति - बहवो धीवानो 'यस्याः सा मेरुदृश्वरीति - बहवो मेरुदृश्वानो यस्यां सा । पक्षे बहुमेरुदृश्वा स्त्री |५|
वा पादः | २|४|६|
बहुव्रीहेस्तद्धेतुकपाच्छन्दान्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी । द्विपात् । बहुव्रीहिनिमित्तो यः पादिति विशेषणादिह न स्यात् ।