________________
( २ )
सुकन्निति–'कसुकि गतिशातनयोः' सूपसर्ग-पूर्वकस्य कसुकि-धातो: क्विन्तस्य रूपमिदम्, अत्र धातोरुदित्त्वम् 'स्महतोः' ।१।४।८६। इत्यत्न महत्साहचर्यात् शुद्धधातोः क्विन्तस्याग्रहणात् सुकन्नित्यत्र न दीर्घः । तत्र शुद्धधातोः विबन्तस्याग्रहणान्नामधातोस्तु भवत्येव श्रेयस्यति, महस्यतीति श्रेयान्, महान् ।।२।।
अञ्चः ।।४॥३॥ अञ्चन्तात् स्त्रियां ङोः स्यात् । प्राची । उदीची ॥३॥ 'अञ्चोऽनर्चायाम्' ।४।२।४६। इति नलोपेऽनेन ङयां 'अच्च प्राग्दीर्घश्च' ।२।१।१०४। 'उदचः उदीच' ।२।१।१०३। इति कृते प्राचीत्यादि । अञ्च इति धातुरुपस्य निर्देशादर्चाविवक्षायां न-लोपाभावे अन विवक्षायां तु नलोपेऽपिच ङीः भवति । अचः इति निर्देशे तु,अच्च प्राग्दीघश्च ।२।।११४। इति-वत्' कृतनलोपादेव डीः स्यात्तन प्राञ्ची उदञ्चीत्यादिर्न सिध्येत् ॥३॥
णस्वराऽघोषाद्वनो रश्च ।२।४।४। , एतदन्तात् विहितो यो वन्, तदन्तात् स्त्रियां डीः स्यात्। तद्योगे वनौन्तस्य रश्च । अवावरी । धीवरी । मेरुदृश्वरी। णस्वराऽघोषादिति किम् । सहयुध्वा स्त्री। विहितविशेषेणं किम् । शर्वरी ॥४॥ विहितविशेषणेऽ-त्र पञ्चमीत्याह-विहित इति । वन इति 'निरनुबन्धग्रहणेन सामान्येनइति न्यायाद् वन्-क्वनिप्-वनिपां ग्रहणम् वनोऽन्तस्येति-ननु 'प्रत्ययस्य' ।७।४।१०८। इति सर्वस्य स्यादिति-कथमुक्तमन्तस्येति चेत्सयं वात् न इति कृते सिध्यतीत्यदोषः। 'ओण अपनयने"ओणतेः मन्वन्क्वनिप्०' ।५।१।१४७। इति वनि 'वन्याङ पञ्चमस्य' ।४।२।६५। इति णकारस्यात्वे ऽवादेशेऽनेन यां रेफे च अवावरी । दधातीति क्वनिपि ईर्व्यञ्जनेऽयपि'