________________
॥ अथ द्वितीयाध्यायस्य चतुर्थः पादः ॥
स्त्रियां नृतोऽस्वस्त्रादेर्डीः | २|४|१|
स्त्रीवृत्तेर्नान्तादृदन्ताच्च स्वस्त्रादिवर्जाङोः स्यात् । राज्ञी । अतिराज्ञी । कर्त्री । स्त्रियामिति किम् । पञ्च नद्यः । अस्वस्त्रादेरिति किम् । स्वसा । दुहिता ॥ १ ॥
1
अतिराज्ञी - पूजितो राजा स्त्री चेदतिराज्ञी 'पूजा-स्वते: ० |७|३|७२ | सूत्रात् समासान्त प्रतिषेधः । पञ्च नद्यः - पञ्चनुशब्दस्य नकारान्तत्वेऽपि स्त्रियां वर्तमानत्वा-भावात् न ङीः । उक्तं च नान्तायाः संख्याया अलिङ्गत्वं 'नन्ता संख्या युष्मदस्मच्च स्युरलिङ्गका इति लिङ्गानुशासनवचनात् । स्वसा, अतिस्सा, परमस्वसा, दुहिता, ननान्दा, याता, माता, तिस्रः, चतस्रः एते स्वस्रादयः । तिसृचतस्रादेशस्य विभक्त्यानन्तर्यनिमित्तत्वात् सन्निपातलक्षणत्वात् तद्विघातका-भावादेवं ङी-निवृत्तौ सिद्धायां स्वस्रादिगणे एतयोः पाठ: 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' इति न्यायस्यानित्यताज्ञापनार्थः ||
अधादृदितः | २|४|२|
. अधातुर्य उदिदृदिच्चतदन्तात् स्त्रीवृत्त डः स्यात् । भक्ती । अति महती । पचन्ती । अधात्विति किम् । सुकन् स्त्री ॥२॥
1
भवती - भांक दीप्ती 'भातेर्डवतुः । उणा - ८८६ | डवतुप्रत्ययः, उदित्त्वादनङीः । अतिमहती - हिवृहिमहि० । उणा० ८८४ इति दितृप्रत्ययः, प्रत्ययस्यदित्त्वम् । अवयत्रधर्मेण समुदायस्य व्यपदेशात्, अवयवस्य ऋदित्त्वात् महच्छब्दोऽपि ऋदित् तेन तदन्तं समासनाम । पचन्तीत्यत्र शतृप्रत्ययः प्रत्ययस्यदित्त्वात् अनेन ङीः । अव्युत्पत्तिपक्षे तु अतिमहतीत्यत महच्छब्दः ऋदित् तदन्तं समासनाम, भवतीति तु व्यपदेशिवद्भावेन ।